Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदते-पूर्वमेघः। स्त्री विहातुं त्यक्तं का समर्थो भवेदिति कोऽपि न । विवृतजघनामिति वा पाठः । तत्रायमन्त्रयः । विवृत वस्त्रेण अनाच्छादितं जघनं यस्याः सा ताम् ॥ ४१ ॥ (भाव० ) हे मेव ! तस्या गम्भीराया वेतसशाखासङ्गमेन किञ्चित् करवृतमिव, परित्यततटरूपनितम्ब, नीलं जलमेव वसनमपनीय तत्र सानुरागं निपततस्तेऽग्रे गमनं कृच्छ्रेण भावि । यतोऽनुभूतरसः कः पुमान् प्रकटीकृतजघनां कामिनी परित्यक्तुं शक्नुयात् ॥४१॥ त्वनिष्यन्दोच्छ्वासितवमुधागन्धसंपकरम्यः स्रोतोरन्ध्रध्वनितमुभगं दन्तिभिः पीयमानः । नीचर्यास्यत्युपजिगमिषोर्दैवपूर्व गिरि ते शीतो वायुः परिणमायता काननोदुम्बराणाम् ॥४२॥ ( सञ्जी०) त्वदिति ॥ त्वनिष्यन्देन तव वृष्ट्योच्छसिताया उपबंहिताया वसुधाया भूमेर्गन्धस्य संपर्केण रम्यः । सुरभिरित्यर्थः ॥ स्रोतःशब्देनेन्द्रियवाचिना तद्विशेषो घ्राणं लक्ष्यते ॥ "स्रोतोऽम्बुवगेन्द्रिययोः" इत्यमरः ॥ स्रोतोरन्ध्रेषु नासाग्रकुहरेषु यद्ध्वनित शब्दस्तेन सुभगं यथा तथा दन्तिभिर्गजैः पीयमानः । वसुधागन्धलोभादाघ्रायमाण इत्यर्थः । अनेन मान्यमुच्यते । काननेषु बनेपूदुम्बराणां जन्तुफलानाम् “उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदग्धकः' इत्यमरः ॥ परिणमयिता परिपाकरिता ॥"मितां ह्रस्वः” इति द्वस्वः ॥ शीतो वायुः । देवपूर्व देवशब्दपूर्व गिरिम् । देवगिरिमित्यर्थः । उपजिगमिषोरुपगन्तुमिच्छोः ॥ गमेः सन्नन्तादप्रत्ययः । ते तव नाचैः शनस्पति । त्वां वीजयिष्यतीत्यर्थः ॥ संबन्धमानविवक्षायां षष्टी । “देवपूर्व गिरिम्” इत्यत्र देवपूर्वत्वं गिरिशब्दस्य न तु संजिनस्तदर्थस्येति संज्ञायाः संज्ञित्वाभावादवाच्यवचनं दोषमाहुरालंकारिकाः । तदुक्तमेकावल्याम्--"यदवाच्यस्य वचनमवाच्यवचनं हि तत्" इति ॥ समाधानं तु देवशब्दविशेषितेन गिरिशब्देन शब्दपरेण मेघोपगमनयोग्यो देवगिरिलक्ष्यत इति कथंचित्संपाद्यम् ॥ ४२ ॥ (चारि०) त्वनिष्यन्देति । भो मेव देवपूर्व गिरि देवगिरि देशविशेष उपजिगमिषोर्गन्तुमिच्छोस्ते नीरधस्तात् शीतो वातः पवनो वास्यति । किविशिष्टः । त्वनिष्यन्दोच्छ्वसितवसुधागन्धगम्पकरम्यः । त्वनिष्यन्देन तव जलक्षरणेन उछ्वसिता फुल्लिता या वसधा प्रथ्वी तस्या गन्धः सौरभ्यं तस्या सम्पर्कस्तेन रम्योः मनोरमः। एतेन सौगन्ध्यमुक्तम् । अत एवं दन्तिभिर्गजैः पीयमानः । कथं यथा स्यात् । स्रोतोरन्ध्रध्वनितसुभगं यथा स्यात् । स्रोतसः इन्द्रियभूतायाः शुण्डाया रन्धं तस्य ध्वनितं ध्वनिस्तेन सुभगं। एतेन मान्द्यम् । पुनः कीदृशः कानने वने यान्युदुम्बराणि तेषां परिणमयिता परिपाकं गमयिता । उदुम्बरफलानि नम्रीकुर्वन्नित्यर्थः । नतु पातयन्निति मान्यम् । ओजो दीप्ती बले स्रोत इन्द्रिये निम्नगास्यइत्यमरः ।। ४२ ॥ (भाव) हे मेघ ! ततः परं देवगिरि जिगमिधूत्वां त्वदृष्टयुपवृंहितभूमिगन्धसुरभिर्गजैश्च नासाग्रकुहरध्वनितसुभगमाघ्रायमाणो वन्योदुन्बरफलानां परिपाकयिता शीतोवायुस्त्वां वीजयिष्यति ॥ ४२ ॥ तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलाद्रः । रक्षातोर्नवशशिमृता वासवीनां चमूना मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४३ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96