Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते -
स्मिन्नपि काले सन्ध्याया अन्यत्रापि समये महाकालं देवस्थानविशेष आसाद्य प्राप्य ते त्वया तावत्स्थातव्यं यावद्भानुः सूर्यो नयनविषयं नेत्रगोचरत्वं अत्येति अतिक्रामति । अस्तं यातीत्यर्थः। त्वं आमन्द्राणां ईषद्गम्भीराणां गर्जितानां अविकलं सम्पूर्ण फलं लप्स्यसे प्राप्यसि। कि कुर्वन् शूलिनो महेश्वरस्य सन्ध्यावलिपटहतां देवपूजानकत्वं कुर्वन् विदधत् । कीदृशम् । श्लाघनीयां स्तवनीयां । कलो मन्द्रस्तु गम्भीर इत्यमरः । बलिःपूजोपहारे चेति वैजयन्ती। आनकः पटहोऽस्त्रीस्यादित्यमरः । शिवः शूली महेश्वर इत्यमरः ॥ ३४॥
(भाव०) हे मेघ ! सायंकालातिरिक्तऽपि काले महाकालनिकेतनं प्राप्तस्त्वं सूर्यास्तगः मनपर्यन्तं तत्र प्रतीक्षस्व । प्रदोषे शिवार्चनवेलायां गम्भीर गजितं वितन्धन् त्वं पूजापटहतां प्राप्य सफलर्जितो भविष्यसि ॥ ३४ ॥ पादन्यासः कणितरशनास्तत्र लीलावधृतै
रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदमुखान्प्राप्य वर्षाग्रबिन्द
नामोक्ष्यन्ते त्वयि मधुकरणिर्दान्किटाक्षान् ॥ ३५ ।। ( सजी० ) पादन्यासैरिति । तत्र संध्याकाले । पादन्यासैश्चरणनिक्षेपैर्नृत्याङ्गैः क्वणिताः शब्दायमाना रशना यासां तास्तथोक्ताः । वमतेरकर्मकत्वात् “गत्यर्थाकर्मक-" इत्यादिना कतरिक्तः । लीलया विलासेनावधूतैः कम्पितैः रत्नानां कणमणीनां छायया कान्त्या खचिता रूषिता वलयश्चामरदण्डा येषां तैः। बलिश्चामरदण्डे च जराविश्लथचर्मणि" इति विश्वः । चामरैर्बालव्यजनैः क्लान्तहस्ताः । एतेन दैशिकं नृत्यं सूचितम् । तदुक्तं नृत्यसर्वस्वे-"खड्गकन्दुकवस्त्रादिदण्डिकाचामरस्रजः । वीणां च कृत्वा यत्कुर्युनत्यं तदूदेशिकं शिकं भवेत् ।" इति। वेश्या महाकालनाथमुपेत्य नृत्यन्त्यो गणिकास्त्वत्तो नखपदेषु नखक्षतेषु सुखान्सुखकरान् । "सुखहेतौ सुखे सुखम्" इति शब्दार्णवे । वर्षस्याग्रबिन्दून्प्रथमबिन्दून्प्राप्य त्वयि मधुकर)णिदीर्घान्कटाक्षानपाङ्गानामोक्ष्यन्ते । “परैरुपकृताः सन्तः सद्यः प्रत्युपकुर्वत" इति भावः । कामिनीदर्शनीयत्वलक्षणं शिवोपासनाफलं सद्यो लप्स्यस इति ध्वनिः ॥ ३५ ॥
(चारि०)पादन्यासेति-मो मेघ ! वेश्याः पण्यस्त्रियस्त्वयि भवति कटाक्षक्षेपान् वक्रावलोकितानि मोक्ष्यन्ते त्वां कटाक्षरालोकयिष्यन्तीति भावः । किं कृत्वा त्वत्तो भवतो नखपदानि करजलक्ष्माणि सुखयन्तीति सुखास्तान् वर्षाने बिन्दून् प्रावृटप्रथमविपुषः प्राप्य किं. विधान कटाक्षान मधुकरश्रेणिदीर्घान् । भ्रमरपङ्क्तिदीर्घान् । श्यामानित्यर्थः । वेश्याः कीश्यः । पादन्यासेन नृत्यकरणात् चरणविक्षेपेण कणिताः शब्दायमाना मेखला यासां ताः । पुनः कीदृश्यः । चामरैर्बालव्यजनैः क्लान्ताः खिन्नाः हस्ताः पाणयो यासां ताः । चामरैः कीदृशैः लीलया क्रीडयावधूतैः । पुनः कीदृशैः रत्नछायया मणिदीप्त्या खचिता वलयः करा यस्तानि तैः। पद व्यवसितत्राणस्थानलक्ष्माधिवस्तुम्वित्यमरः। करोपहारयोः पुसि बलिरित्यमरः॥३६॥
(भाव) हे मेघ ! तत्र सन्ध्याकाले महाकालसेवायां सलील पादविन्यासैः शब्दायमान. मेखलाश्चामरान्दोलनेन च क्लान्तहस्ताः वेश्यास्त्वत्सकाशानखातेषु सुख जनकान् वृष्टिजल. बिन्दून् प्राप्य पीडापगमात्सुखितास्त्वामपाङ्गवीक्षणैर्द्रक्ष्यन्ति ॥ ३५ ॥ पश्चादुर्भुजतरुवनं मण्डलेनाभिलीनः
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः
For Private And Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96