Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७
मेघदुते-पूर्वमेघः । प्रद्योतस्येति । अत्र प्रदेशे वत्सराजो वत्सदेशाधीश्वर उदयनः । प्रद्योतस्य नामोज्जयिनीनायकस्य राज्ञः प्रियदुहितरं वासवदत्ता जढे जहार । अन्न स्थले तस्यैव राज्ञः प्रद्योनस्य हैमं सौवर्ण तालमवनमभूत् । अन्न नलगिरिनामेन्द्रदत्तस्तदीयो गजो दर्पान्मदात्स्तभमालानमुत्पाट्योद्धत्योभ्रान्त उत्पत्य भ्रमणं कृतवान् । इतीत्थंभूताभिः कथाभिरि. त्यर्थः । अभिज्ञः पूर्वोक्तकथाभिनः कोविदो जन आगन्तून्देशान्तरादागतान् । औणादिकस्तु. प्रत्ययः । बन्धून्यत्र विशालायां रमयति विनोदयति । अत्र भाविकालंकारः । तदुक्तम्"अतीतानागते यत्र प्रत्यक्षत्वेन लक्षिते । अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम् ।” इति ॥ पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् । योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः प्रत्यादिष्टाभरणरुचयश्चन्द्रहासवणाः ॥
पत्रेति । हे जलद ! यत्र विशालायां वाहा हयाः पत्रश्यामाः पलाशवर्णा अत एव दिनकरहयस्पर्धिनो वर्णतो वेगतश्च सूर्याश्वकल्यास्तथा शैलोदग्राः शैलवदुन्नताः करिणः प्रभेदा न्मदत्रावाद्धेतोस्त्वमित्र वृष्टिमन्तः । अग्रं नयन्तीत्यग्रण्यः । “सत्सूद्विष-" इत्यादिना विप् । “अग्रगामाभ्यां नयतेः” इति वक्तव्याण्णत्वम् । योधानामग्रण्यो भटश्रेष्ठाः संयुगे युद्धे प्रतिदशमुखमभिरावणं तस्थिवांसः स्थितवन्तः । अत एव चन्द्रहासस्य रावणासेरृणानि क्षता. न्येवाड़ाश्चिह्नानि तैः । “चन्द्रहासो रावणासावसिमात्रेऽपि च कचित्” इति शाश्वतः । प्रत्या. दिष्टाभरणरुचयः प्रतिषिद्धभूषणकान्ताः । शस्त्रप्रहारा एव वीराणां भूषणमिति भावः । अनापि भाविकालंकारः ॥ ३१ ॥
(चारि०) दीर्घाति-भो मेघ ! यत्र यस्यामुज्जयिन्यां शिप्रावातः शिष्यानदीमरुत् अङ्गा. नुकूलः सन् प्रत्यूषे प्रातःकालेषु स्त्रीणां कामिनीनां सुरतग्लानि रतिश्रमं हरति । किं कुर्वन् । सारसानां पक्षिभेदानां कूजितं शब्दं दीर्थी कुर्वन् । कीदृशं पटु दक्षं । पुनः कीदृशम् । मदात् हपांत् कलं मधुरध्वनि अव्यक्तं वा । कीदृशो वातः । स्फुटितानां विकसितानां कमलानां वारिजानां आमोदो जनमनोहरो गन्धस्तस्य मैत्री सम्पर्कस्तेन कषायः सुरभिः सुगन्धिः । मदो रेतसि कस्तूर्या गवे हर्षेभदानयोरिति मे० । कलं शुक्रे त्रिषु जीणें चाव्यक्त मधुरध्वना. विति मे । पटुर्दक्षे च नीरोगे चतुरे ऽप्यभिधेयवदिति मे० । विमोत्थे परिमलो गन्धे जनमनोहरे । आमोद इत्यमरः । कपायो रसभेदे च निर्यासे च विलेपने । अगरङ्गे च न स्त्री स्या. त्सरभौ लोहिते त्रिष्विति मेदिनीकारः । क इव उत्प्रेक्ष्यते । प्रार्थना प्रसादार्थ याचा तस्यां चाटुकारः मधुरभापी प्रियतम इव भत्तेंव । सोऽप्येवंविधो भवति । कीदृशः कमलगन्धसम्पसुगन्धिः । तथा च शरीरसुखकारी भवति । अपरं च सुरतमं हरति ।
(चारि०) हारानिति-भो मेघ ! यस्यां पुर्या तारान् शुद्धमौक्तिकान् हारान् दृष्ट्वा सलिलनिधयः समुद्रास्तोयमात्रावशेषाः केवलजलावशिष्टाः संलक्ष्यन्ते । कीदृशान् तरला भा. स्वरा गुटिका येषु ते तान् । कोटिशः सर्वत्र योज्यम् । शङ्खशुक्तीश्च दृष्ट्वा न केवलं शङ्कशुक्तीः शष्पवत् बालतृणवत् श्यामान नीलवर्णान् मरकतमणींश्च कीदृशान् उद्गताः मयूखाना किरणानां प्ररोहाः अङ्कुरा येषां ते तान् । विद्रुमाणां प्रवालानां भङ्गाश्च शकलानि च दृष्टा किंविशिष्टान् विपण्या हट्टायां रचितान् कृतराशीन् । तारो वानरभिन्मुक्ताविशुयोः शुद्धमौक्तिक इति मेदि। तरलं चञ्चले पिड्गे भास्वरेऽपि त्रिलिङ्गकमिति मे० । शष्पं बालतृणं घास इत्यमरः॥
(चारि०) प्रद्योतस्येति-भो मेघ ! यत्रोजयिन्यां अभिज्ञो जनो लोकः आगन्तूना. गन्तुकान् बन्धून सुहृदः इति रमयति । इति कथम् । भो बान्धवाः अत्र वत्सराजो नृपवि. शेषः प्रद्योतस्य राज्ञः प्रियदुहितरं पुत्रीं जहें अहरत् । तस्यैव राज्ञः तालदुमवन हैमं सौवर्णमभूत् । किलेति प्रसिद्धौ । अत्र नलगिरिन्पो दर्पात् बलात् स्तम्भ उत्पाय उभ्रान्तः । उद्भ्रमणं चकार ॥
For Private And Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96