Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदते -पूर्वमेघः। "भूतिर्मातंगशृङ्गारे जातौ भस्मनि संपदि” इति विश्वः ॥ दृश्यसि । अयमपि महांस्ते नयन. कौतुकलाभ इति भावः ॥ ११ ॥ (चारि०) स्थित्वेति-भो मेघ ! त्वं तत्परं तस्मात् पर्वतात्पर वर्क्स माग तीर्णः सन् रेवां नर्मदा द्रक्ष्यसि विलोकयिष्यसि । किं विशिष्टस्त्वम् । तोयोत्सर्गात् जलत्यागात द्रुततरगतिरतिशीघ्रगमनः । किं कृत्वा । तस्मिन् पर्वते मुहत क्षणं स्थित्वा। किंविशिष्टे । वनचरखधूभिः किरातवनिताभिर्मुक्तो निको लतादिपिहितोदरं स्थान यस्य स तस्मिन् । किंविशिष्टां रेवाम् । उपलैः पाषाणैर्विषमे निम्नोन्नते विन्ध्यस्य विन्ध्याचलस्य पादे प्रत्यन्तपर्वते विशीणी प्रसृताम् । कामिव । गजस्य हस्तिनोऽङ्गो शरीरे भृतिमिव भर मेव । कोहशीं। भक्तिच्छेदै रचनाविशेषैविरचिताम् । गिरेरुपमानं गजः पादस्याङ् रेवायाः भुतिः । रेवा तु नर्मदा सोमोद्भवा मेकलकन्यकेत्यमरः । पाहो बुधे तुरीयांशे शैलप्रत्यन्तपर्वत इति मेदिनीकारः । निकुञ्जकुक्षौ वा क्लीवे लतादिपिहितोदर इत्यमरः । पाषाणप्रस्तरावोपलाश्मान इत्यमरः । भुतिर्भस्मनि सम्पत्ती॥१९॥ (भाव०) हे मेघ ! आम्रकट गिरेः किराताङ्गनोपभुक्ते कुळे क्षणं विश्रम्य तत्र वृष्टिं कृत्वा लघुशरीरः सन् तत्पर मार्गरमाक्रम्य विन्ध्याद्वित: विसृमरां गजस्याङ्ग रचनाविशेषैनिहितां भूतिमिव नर्सदां वक्ष्यति ॥ १९ ॥ तस्यास्तिक्तैर्वनगजमदैवासितं वान्तवृष्टि जम्बकुञ्जपतिहतरयं तोयमादाय गच्छेः । अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां। रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ।। २० ।। ( सञ्जी० ) तस्या इति ॥ हे मेघ ! वान्तवृष्टिरुदीर्णवर्षः सन् । कृतवमनश्च, व्यज्यते । तिक्तैः सुगन्धिभिस्तिक्तरसवद्भिश्च ॥ “तिक्तो रसे सुगन्धौ च” इति विश्वः ॥ वनगजमदैवासितं सुरभितं भावितं च । “हिमवद्विन्ध्यमलया गजानां प्रभवाः” इति विन्ध्यस्य गज प्रभवत्वादिति भावः । जम्बूकुत्रैः प्रतिहतरयं प्रतिबद्धवेगम् । सुखपेयमित्यर्थः । अनेन लयुत्वं कषायभावना च व्यज्यते । तस्या रेवायास्तोयमादाय गच्छेज। हे घन मेघ अन्तः सारो बलं यस्य तं त्वामनिल आकाशवायुः, शरीरस्थश्च गम्यते। तुलयितुं न शक्ष्यति शको न भविष्यति । तथा हि । रिक्तोऽन्तःसारशून्यः सर्वोऽपि लघुर्भवति । प्रकम्प्यो भवतीत्यर्थः । पूर्णता सारवत्ता गौरवायाप्रकरप्यत्वाय भवतीत्यर्थः ॥ अयमत्र ध्वनिः-आदौ वम. नशोधितस्य पुंसः पश्चाच्छ्लेमशोषणाय लघुतिक्तकषायाम्बुपानालब्धबलस्य वातप्रकम्पो न स्यादिति । तथाह बाग्भटः- "कषायाश्वाहिमास्तस्य विशुहौ श्लेष्मणो हिताः। किम तिक्तकपाया वा ये निसर्गात्कफापहाः ॥ कृतशुद्धः क्रमात्यीत यादेः पथ्यभोजिनः । वातानि निर्न आधा ल्यादिन्द्रियैरिव योगिनः ॥” इति ॥२०॥ (चारि०) तस्या इति । भो मेव! त्वं वान्तवृष्टिः सन् तस्या रेवायास्तोय जलमादाय गृहीत्वा गच्छेर्यायाः। किंविधं तोयं कटुभिर्वनगजमदैवासितं अरण्यद्विपदानैः सगन्धी तम् । पुनः कीदृशं तोयम् । जम्बूकुञ्जप्रतिहतरयं जम्वाः कुः प्रतिहतः स्खलितोयोगों पस्य तत् । अन्तःसारं सनीरं त्वां तुलयितुं अनिलो वायुर्न शक्ष्यति न शको भविष्यति । अधीन्तरमाह-हि यतः सर्वो रितः सन् लघुर्भवति पूर्णत्वं गौरवाय गरिम्णे भवति । भो त्प्रतिहतं द्विष्टे प्रतिस्खलितरुद्धयोरिति मेदिनीकारः । मदो रेतसि कस्तूर्या गवे हर्षेभदानयोरिति । सारो बले मज्जनि च स्थिरांशे न्याये च नीरे च धने च सारमिति विश्वः ॥२०॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96