Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२ सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते -
(चारि०) नीचैरिति । भो मेघ ! त्वं तत्र विदिशायां विदिशासमीपे नीचैरित्याख्या नाम यस्य तं नीचैराख्यं गिरि पर्वतं अधिवसेः कुतः विश्रामहेतोः। उत्प्रेक्षते-त्वत्सम्पर्कात् त्वदङ्गसङ्गात् प्रौढपुष्पैः पक्वकुसुमैः कदम्बनींपैः पुलकितमिव । रोमाञ्चितमिव यो गिरिन गराणां पुरनिवासिनो उद्दामानि स्वतन्त्राणि यौवनानि तारुण्यानि शिलावेश्मभिः पाषाणगृहैः प्रथयति प्रख्यापयति । किंविशिष्टः । पण्यस्त्रीणां वेश्यानां रतिपरिमलः सुरतोपमर्दविकसच्छरीररागादिसौरभस्तं उद्विरितुं शीलमेषां तानि उद्गारीणि नैः । उद्दामो बन्धरहिते स्व. तन्त्रे चेति मेदि । स्यात्परिमलो विमर्दातिमनोहरगन्धयोश्वापि। सुरतीपमर्दविकसच्छरीररागादिसौरभे पुंसीति मेदि० । पाषाणः प्रस्तरमावोपलाश्मानः शिलाहषदित्यमरः ॥२६॥
(भाव०) हे मेघ ! विश्रामार्थ तत्र नीचैराख्यं पर्वतमधिवस । यस्त्वत्प्रेम्णेव कदम्बैः पुलकितः स्यात् । किञ्च यत्र वाराङ्गनारतिपरिमलसुरभीणि शिलागृहाणि तत्रत्यानां नागराणां उद्दामानि तारुण्यानि प्रकटयन्ति ॥ २६॥ विश्रान्तः सन्वज वननदीतीरजातानि सिञ्च
न्नुद्यानानां नवजलकणैथिकाजालकानि । गण्डस्वेदापनयनरुजा कान्त कर्णोत्पलानां
छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २६ ॥ सभी विश्रान्त इति ॥ विश्रान्तः संस्तत्र नीचैगिरौ विनीताध्वश्रमः सन् । अथ विश्रान्तेरनन्तरम् । वनेऽरण्ये या नद्यस्तासां तीरेषु जातानि स्वयंरूढानि अकृत्रिमाणीत्यर्थः। नदनदि-" इति पाठे "पुमान्स्त्रिया" इत्येकशेषो दुर्वारः ॥ तेषामुद्यानानामारामाणां संबं. धीनि यूथिकाजालकानि मागधीकुसुममुकुलानि ॥ “अथ मागधी । गणिका यूथिका" इत्य. मरः ॥ "कोरकजालककलिकाकुड्मलमुकुलानि तुल्यानि" इति हलायुधः ॥ नवजलकणैः सिञ्चन्नार्दीकुर्वन् । अत्र सिञ्चतेराद्रीकरणत्वाद् द्रवद्रव्यस्य करणत्वम् । यन्त्र तु क्षरणमर्थस्तत्र द्रवव्यस्य कर्मत्वम् । यथा "रेतः सिक्त्वा कुमारीषु" । "सुखैनिषिञ्चन्तमिवामृतं त्वचित इत्येवमादि ॥ एवं किरतीत्यादीनामपि "रजः किरति मारुतः" । "अवाकिरन्वयोवृद्धास्त लाजैः पौरयोषितः” इत्यादिष्वर्थभेदाश्रयणेन रजोलाजादीनां कर्मत्वकरणत्वे गमयितव्ये तथा गण्डयोः कपोलयोः स्वेदस्यापनयनेन प्रमार्जनेन या रुजा पीडा ॥ भिदादित्वादम. यतया कान्तानि म्लानानि कर्णोत्पलानि येषां तेषां तथोक्तानाम् । पुष्पाणि लुनन्तीति पुष्पलान्यः पुष्पावचायिकाः स्त्रियः ॥ “कर्मण्यम्" । "टिड्ढाणञ्-" इत्यदिना डीप । तासां मखानि । छायाया अनातपस्य दानात् । कान्तिदानं च धन्यते ॥ छाया सूर्या प्रिया कान्तिः प्रतिबिम्बमनातपः" इत्यमरः ॥ कामुकदर्शनात्कामिनीनां मुखविकासो भवतीति भावः ॥ क्षणपरिचितः क्षण संसृष्टः सन् । न तु चिरम् । गच्छ ॥ २६ ॥
(चारिक) विश्रान्त इति। भो मेध ! विश्रान्तः सन् त्वं ब्रज किं कुर्वन् उद्यानानां उपवमानां यूथिकाजालकानि नवजलकणैः नवीनशीकरैः सिञ्चन् । किविशिष्टानि नवनदीतीरजातानि । नवनद्याः कुल्यायास्तीरे कूले जातानि समुत्पन्नानि । अथवा नवानि नूतनानि नदीतीरजातानि च तानि । किविशिष्टस्त्वम् । छायादानात् आतपाभावकरणात् पुष्पलावीमुखानां पुष्पाणि लुनन्ति पुष्पलाव्यस्तासां मुखानि तेषां । क्षणे अव्यापारस्थितौ काले परिचितः कृतपरिचयः । किविशिष्टानां मुखानां । गण्डयोः कपोलयोर्यः स्वेदस्तस्यापनयनं दूरीकरणं तेन या रूजा भङ्गस्तयाः क्लान्तानि कर्णात्पलानि येषु तानि तेषाम् । रुजा रोगे च भड़े चेति मेदिक। छाया स्यादातपाभाव इति मेदि । अव्यापारस्थितौ कालविशेषोत्सवयोः क्षण
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96