Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 31
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २० सञ्जीवनीचारित्रवर्द्धनीभावप्रबोधिनीसहिते - पर्वते पर्वते कालक्षेपं सम्भावयामि । यतस्तत्र प्रतिपर्वतं मयूरा: सजलनयनाः सन्तः स्वकोयकेकावाण्या तव स्वागतं कुर्वन्तस्त्वां प्रत्युद्धमिष्यन्ति । इत्थं त्वमपि ततः कष्टेनैवाने गन्तु. मुद्योगं करिष्यसि ॥२२॥ पाण्डुच्छायोपवनवृतयः केतकैः मूविभिन्न नीडारम्भहबलिभुजामाकुलग्रामचैत्याः । त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २३ ॥ (सो०) पाण्डिति ॥हे मेघ! त्वय्यालन्ने संनिटे सति दशार्णा नाम जनपदाः सूचिभित्रैः सूचिषु मुकुलाग्रेषु भिन्नविकसितैः ॥ "केतकीमुकुलाग्रेषु सूथि: स्यात्" इति शब्दार्णवे ॥ केतकैः केतकी कुसुमैः पाण्डुच्छाया हरितवर्णा उपवनानां वृतयः कण्टकशाखावरणा येषु ते तथोक्ताः॥ "प्राकारो वरणः साल: प्राची प्रान्ततो वृतिः" इत्यमरः । तथा गृहबलिभुजां काकादिग्रामपक्षिणां नीडारम्भैः कुलायनिर्माणः ॥ "कुलायो नीडमस्त्रियाम्" इत्यमरः ॥ चित्याया इमानि चेत्यानि रथ्यावृक्षाः॥ "चैत्यमायतने बुद्धवन्ये चोदेशाप" इति विश्वः ॥ आकुलानि संकोनि ग्रामे र वैत्यानि येते तथोक्ताः । तथा परिणतः पक्कैः फलैः श्यामानि यानि जम्बूबनानि तैरन्ता रम्याः ॥ "मृताववासिने रम्ये समासावन्त इष्यते” इति शब्दार्गः ॥ तथा कतिपयेष्वेव दिनेषु स्थायिनो हंसा येषु ते तथोक्ता एवंविधाः संपत्स्यने भविष्यन्ति॥ "पोटायुवतिम्तोककतिपय-" इत्यादिना कतिपय शब्दस्पोत्तरपदत्वेऽपि न तच्छन्दस्यो. त्तरत्वमस्त्यस्य शास्त्रस्य प्रायिकत्वात् ॥ २३ ॥ (चारि०) पाण्डिति-भो मेघ ! त्वयि आलन्ने निकटगते सति दशार्णाः देशविशेषाः परिणतानि फलानि येषु ते तादृशाः श्यामजम्ब्वाः वनान्त काननमध्यं येषु तादृशाः सम्पत्स्य. न्ते सम्पन्ना भविष्यन्ति । कीदृशाः । कतिपयेषु दिनेषु स्थातुं शीलमेषां ते तादृशाः हंसा येषु ते । कोशाः सूचिभित्र: कण्टकमिश्रितः केतकः पाण्डुचछायस्य पीतशोभस्योपचनस्योद्यानस्य वृतिरावेष्टनं येषु त । पुनः कीदृशाः। गृहबलिभुजां काकानां नीडारम्भैः कुलायोद्यमैः आकु. लानि नामचैत्यानि ग्रामपादाः येषु ते। चैत्यमायतने बुद्धबिम्बे चोदेशपादप इति मेदिनीकारः । वृतिस्तु वरणेऽपि स्याद्वेटने पि च योषितोति मेदिनी कारः। नोडं स्नानकुलाययोरिति मेदि । आरम्भस्तु त्वरायां स्यादुद्यमे वधदर्पयोरिति मेदि० ॥२३॥ (भाव०) हे मेव ! त्वयि प्रत्यासन्ने सति दशाणंदेशेषु उपवनानि सकण्टककेतकवृतियुतानि, रध्यावृक्षाश्व ग्रामपक्षिणां कुलायनिर्माणव्याकुलाः, वनान्ताश्च परिपक्वजम्बूफलश्यामाः, हंसाश्च वर्षाकालवशान्मानसगमनत्वस्या कतिपयदिनस्थायिनो भविष्यन्ति ॥ २३ ॥ तेषां दिक्षु प्रथितविदिशालक्षणां राजधानी गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मा सभ्रभङ्ग मुखमिव पयो वेत्रवत्याश्चलोमि ॥ २४ ॥ (सञ्जी० ) तेषामिति ॥ दिक्षु प्रथितं प्रसिद्धं विदिशेति लक्षणं नामधेयं यस्यास्ताम् ॥ "लक्षणं नाम्नि चिह्ने च” इति विश्वः । तेषां दशार्णानां सम्बन्धिनीम् । धीयन्तेऽस्यामिति धानी || "करणाधिकरणयोश्च" हति ल्युट् ॥ राज्ञां धानी ।। राजधानी ॥ "कृयोगलक्षणा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96