Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदते-पूर्वमेघः । इत्यमरः । पुमानाक्रीड उद्यानं राज्ञः साधारणं वनमित्यमरः ॥ २६ ॥ (भाव०) तत्र विश्रान्तः सन् वन्यनदीतीरोद्यानस्थयूथिकाजालकानि सिञ्चन् गच्छ । तत्रोद्यानेषु पुष्पावचयार्थमागतानां पुष्पावचयश्रमेण स्विन्नानां सुन्दरीणां छायाकरणेन ताभिरुग्रीवाभिः क्षणं विलोकितस्त्वं तासां परिचितो भविष्यसि ॥ २६ ॥ वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशा सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः। विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वश्चितोऽसि ॥ २७॥ (सञ्जी०) वक्र इति॥ उत्तराशामुदीची दिशं प्रति प्रस्थितस्य भवतः पन्था उज्जयिनीमार्गो वक्रो यदपि । दूरो यद्यपीत्यर्थः । विन्ध्यादुत्तरवाहिन्या निर्विन्ध्यायाः प्राग्भागे किय. त्यपि दूरे स्थितोज्जयिनी । उत्तरापथस्तु निर्विन्ध्यायाः पश्चिम इति वक्रत्वम् ॥ तथाप्युज्जयिन्या विशालानगरस्य ॥ “विशालोज्जयिनी समा" इत्युत्पलः॥ सौधानामुत्सङ्गषूपरिभागेषु प्रणयः परिचयः ॥ “प्रणयः स्यात्परिचये याञ्चायां सौहृदेऽपि च” इति यादवः। तस्य विमुखः पराङ्मुखो मास्मभुः। न भवेत्यर्थः । "स्मोत्तरे लङ् च" इति चकारादाशीरथै लुङ् । “न माङ्योगे" इत्यडागमप्रतिषेधः ॥ तत्रोज्जयिन्यां विद्युदाम्नो विद्युल्लतानां स्फुरितेभ्यः स्फुरणेभ्यश्चकितैर्लोलापाडैश्चञ्चलकटाक्षः पौराङ्गनानां लोचनैर्न रमसे यदि तर्हि त्वं वञ्चितः प्रतारितोऽसि । जन्मवैफल्यं भवेदित्यर्थः ॥२७॥ (चारि० ) वक्र इति-भो मेध ! उत्तराशां उदीची दिशं प्रस्थितस्य गच्छतो भवतस्तत्र यदपि मार्गो वक्रस्तिरश्चीनस्तथापि उज्जयिन्याः विक्रमार्कपुर्याः सौधोत्सङ्गप्रणयविमुखो धवलगृहपराङ्मुखो मा स्म भूः सरलमार्ग त्यत्तवा वक्रे पथिकिमर्थं गच्छामीत्याह-तत्र उज्जयिन्यां पौराङ्गनाना नागरनारीणां । लोचनैर्नयनैर्यदि न रमसे न क्रीडसि तदा वञ्चितोऽसि । किविशिष्टैः । विद्युद्दामस्फुरितचकितैः सौदामिनीमालादीप्तिचञ्चलैः । अपरं कीदृशैः । लोलापाङ्गैः लोलाश्चञ्चला अपाङ्गा नेत्रान्ताः कटाक्षा येषु तानि तैः। अपाङ्गस्त्वहीने स्यान्नेत्रान्ते तिलकेऽपि च इति मेदिनीकारः । विद्युत्सौदामिनीत्यमरः ॥२७॥ (भाव०) उत्तरां दिर्श गच्छतस्ते यद्यपि मार्गों वक्र: स्यात्तथाऽपि उजयिनीमवश्य गच्छ । तत्र पौरस्त्रीणां विद्युद्दामतुल्यैः कटाक्षैर्नयनोत्सवं लप्स्यसे । तासां सौन्दर्यमवश्यं विलोकय ॥ २७ ॥ संप्रत्युज्जयिनी गच्छतस्तस्य मध्येमागं निर्विन्ध्यासम्बन्धमाहवीचिक्षोभस्तनितविहगश्रेणिकाचीगुणायाः संसर्पन्त्याः स्खलितमुभगं दर्शितावर्तनाभः । निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः सनिपत्य स्त्रीणामाचं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २८ ॥ ( सञ्जी० ) वीचीति ॥ हे सखे ! पथ्युज्जयिनीपथे वीचिक्षोभेण तरङ्गचलने स्तनितानां मुखराणाम् ॥ कर्तरि क्तः ॥ विहगानां श्रेणिः पंक्तिरेव काञ्चीगुणो यस्यास्तस्याः स्खलितेनोपस्खलनेन मदस्खलितेन च सुभगं यथा तथा संसर्पन्त्याः प्रवहन्त्याः गच्छन्त्याश्च । तथा दर्शितः प्रकटित आवर्ताऽम्भसा भ्रम एव नाभिर्यया ॥ "स्यादावर्तोऽम्भसां भ्रम" For Private And Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96