Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मेघदते-पूर्वमेघः ।
त्यजतः एतेन चातकाः । सारङ्गश्चातके भृङ्गे मृगेऽपि च मतङ्गाजे इति मेदिनीकारः। तूलं च नीपप्रियककदम्बा इत्यमरः । किझल्कः केसरोऽस्त्रियामित्यमरः ॥२१॥
(चारि०) अम्भोबिन्द्विति-भो मेघ ! सिद्धाः त्वामासाद्य भवन्तं प्राप्य स्तनितसमये त्वर्जितकाले प्रियाणां वल्लभानां सहचरीणां स्त्रीणां विभ्रमालिङ्गितानि विलासालिङ्गानानि मानयिष्यन्ति । किविशिष्टानि । उत्कण्ठया सह वर्तन्त इति सोत्कण्ठानि । कीदृशाः सिद्धाः। चातकान् वीक्षमाणाः विलोकयन्तः। कीदृशान् । अम्भसां पानीयानां बिन्दुग्रहणे आदाने रभसो हर्षो येषां ते तान् । किं कुर्वन्तः परिगणनया श्रेणीभूताः कृतपङ्कीः बलाकाः बकपङ्कीः निर्दिशन्तः । इयत्यः सन्ति बलाका इति निर्देशं निश्चयं कुर्वन्तः। रभसो हर्षवेगयोरिति मेदिनी। बलाका बकपङ्किः स्यादित्यमरः । स्तनितं गर्जितं मेघ इत्यमरः । श्रेणीभूना इति पौनरुत्य चिन्त्यम् ॥२१॥
(भाव०) हे मेघ ! मृगाः नीपकुसुमोद्गमं दृष्ट्वा भूकन्दलीश्व भक्षयित्वा वनेषु सुरभितम भूमेर्गन्धमाघ्राय च वृष्टिं कुर्वतस्ते मार्गमनुमापयिष्यन्ति ॥ २१॥ उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थ यियासोः
कालक्षेपं ककुभसुरमौ पर्वते पर्वते ते । शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः
प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ २२ ॥ (सञ्जी० ) उत्पश्यामीति ॥ हे सखे ! मेघ ! मत्प्रियार्थं यथा तथा द्रुतं क्षिप्रम् ॥ "लघु क्षिप्रम द्रुतम्" इत्यमरः॥ यियासोर्यातुमिच्छोरपि ॥ यातेः सन्नन्तादुप्रत्ययः॥ ते तव ककुभैः कुटजकुसुमैः सुरभी सुगन्धिनि । “ककुभः कुटजेऽर्जुने” इति शब्दार्णवे ॥ पर्वते पर्वते प्रतिपर्वः तम् ॥ वीप्सायां द्विरुक्तिः ॥ कालक्षेपं कालविलम्बम् ॥ "क्षेपो विलम्बे निन्दायाम्" इति वि. यः॥ उत्पश्याम्युत्प्रेक्षे॥ विलम्बहेतुं दर्शयन्नाशुगमनं प्रार्थयते-शुक्लेति ॥ सजलानि सानन्द. बाष्पाणि नयनानि येषां तैः शुक्लापा मयूरैः ॥ “मयूरो बर्हिणो बहीं शुक्लापाङ्गः शिखावला" इति यादवः ॥ केकाः स्ववाणीः ॥ “केका वाणी मयूरस्य" इत्यमरः॥ स्वागतीकृत्य स्वागत. वचनीकृत्य प्रत्युद्यातः प्रत्युद्गतः। मयूरवाणीकृतातिथ्य इत्यर्थः । भवान् कथमपि यथाकथंचि. दाशु गन्तुं व्यवस्येदुद्युञ्जीत ॥ प्रार्थने लिङ् । “शेषे प्रथमः” इति प्रथमपुरुषः । शेषश्चार्य भवच्छब्दो युष्मदस्मच्छब्दव्यतिरेकात् ॥ "स्वागतीकृत्य केकाः" इत्यत्र केकास्वारोप्य माणस्य स्वागतवचनस्य प्रकृतप्रत्युद्गमनोपयोगात्परिणामालंकारः । तदुक्तमलारसर्वस्वे-"आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः" इति ॥२२॥
(चारि०) उत्पश्यामोति-भो सवे ! मेघ ! मत्प्रिया) मम सन्तोषाथ दूतं शीघ्र यिया. सोर्गन्तुमिच्छोरपि ते तव पर्वते पर्वते कालक्षेपं विलम्ब अहमुत्पश्यामि । किविशिष्टे पर्वते ककुभैरर्जुनवृक्षः सुरभिः सुगन्धस्तस्मिन् । भवान् आशु शीघ्रं गन्तुं गमनाय कथमपि महता कष्टेन व्यवस्येत् व्यवसायं उद्योगं कुर्यात् । कीदृशो भवान् । शुक्लापाङ्गैः मयूरैः प्रत्युद्यातः । किं कृत्वा केकाः मयूरवाणीः स्वागतीकृत्य स्वागतं भो मेव केकयेति सम्भाष्य । किविशिमयूरैः। स्नेहत्वात् जलेन स्नेहाश्रुानीयेन सह वर्तन्त इति सजलानि नयनानि येषां ते तैः। अथ चोक्तिः । यथा कश्चित्स्नेहाश्रुजलं मुञ्चन स्वागतमिति वाक्यं ब्रुवन् परदेशादागतं मित्रं प्रत्युद्याति । केकावाणी मयूरस्येत्यमरः । नदीसों वीरतरुरिन्द्रद्रः ककुभोऽर्जुनः इत्यमरः । ज्वलितेऽथ द्रुतं त्रिषु । शोधे विलीने विभ्राण इति मेदिनी ॥ २२ ॥
(भाव०) हे मेघ ! मम प्रियकार्य कतु जिगमिषोस्ते मध्येमाग कुटजकुसुमैः सुरभौ
For Private And Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96