Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदते-पूर्वमेघः । स्यादिति मेदिनीकारः,। माला पुष्पादिबन्धे स्यान्मालमुन्नतभूतले इत्यभिधानचिन्तामणिः ॥१६॥ (भाव०) कृषिकायं त्वदेकाधीनमिति सादरं जनपदवधूमिः सरलदृष्ट्या निरीक्ष्यमाणस्त्वं हलकर्षणेन सौरभ्ययुक्तं मालक्षेत्रमारुह्य द्रुतिगतिः सन् किञ्चिदुत्तरेण पुनर्ब्रज ॥ १६ ॥ त्वमासारप्रशमितवनोपप्लवं साधु मूर्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय । प्राप्त मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥ (सञ्जी० ) त्वामिति ॥ आम्राश्चूताः कूटेषु शिखरेषु यस्य स आम्रकूटो नाम सानुमान्पर्वतः ।। "आम्रश्चूतो रसालोऽसौ” “कूटोऽस्त्री शिखरं शृङ्गम्" इति चामरः । आसारो धारावृष्टिः । “धारासंपात आसारः" इत्यमरः ॥ तेन प्रशमितो वनोपप्लवो दावाग्नियन तम्। कृतोपकारमित्यर्थः । अध्वश्रमेण परिगतं व्याप्तं त्वां साधु सम्यङ् मूर्ना वक्ष्यति वोढा ॥ वहेलट् । तथा हि । क्षुद्रः कृपणोऽपि ॥ "क्षुद्रो दरिद्रः कृपणे नृशंसे" इति यादवः। संश्रयाय संश्रयणाय मित्रे मुहृदि । “अथ मित्रं सखा सुहृत्" इत्यमरः ॥ आगते सति । प्रथमसुकतापेक्षया पूर्वोपकारपर्यालोचनया विमुखो न भवति यस्तथा तेन प्रकारेणोच्चैरुन्नतः स आम्रकूटः किं पुनर्विमुखो न भवतीति किमु वक्तव्यमित्यर्थः ॥ एतेन प्रथमावसथे सौख्यलाभात्ते कार्यसिद्धिरस्तीति सूचितम् । तदुक्तं निमित्तनिदाने-"प्रथमावसथे यस्य सौख्यं तस्याखिलेऽध्वनि । शिवं भवति यात्रायामन्यथा त्वशुभं ध्रुवम् ॥” इति ॥१७॥ (चारि०) त्वामासारेति-भो मेध ! आम्रकूटः सानुमान् आम्रकूटनामा पर्वतः त्वां भवन्तं मूर्धा मस्तकेन वक्ष्यति धास्यति कथं साधु यथा स्यात् । किं विधं त्वां आसारेण धारासम्पातेन प्रशमितः शान्ति नीतः वनस्य उपप्लवो दावानललक्षणो येन त्वया स त्वं तं त्वाम् । पुनः किं विधं अध्वश्रमपरिगतं मार्गकमयुक्तम् । पूर्वोक्तऽर्थेऽर्थान्तरन्यासमाह-भो मेघ संश्रयाय मित्रे प्राले सति प्रथमसुकृतापेक्षया पूर्वकृतोपकाराकाङ्क्षया मय्यमुना पूर्वमुपकृतं मयाप्यमुष्य प्रत्युपकारः कर्त्तव्य इति विचारणेत्यर्थः । क्षुदोऽपि नीचोऽपि विमुखो न भवति पराङ्मुखो न स्यात् । यस्तथोच्चैर्महान् स किं पुनः स यदि विमुखो न भवति तदा किमाश्चर्यम् । धारासम्पात आसार इत्यमरः । उपप्लवः सैहिकेये विप्लवोत्पातयोरपि ॥१७॥ (भाव०) वर्षाजलप्रशमितदावानलं मार्गक्लान्तं त्वामसौ आम्रकूटगिरिध्ना धारयि. ष्यति । आश्रयग्रहणार्थ प्राप्तं सुहृदं पूर्वकृतोपकारान् स्मरन क्षुद्रोऽपि न निषेधति । यः पुनरुनतस्तस्य किं वाच्यम् ॥ १७ ॥ छन्नोपान्तः परिणतफलद्योतिभिः काननाः स्त्वयारूढे शिखरमचलः स्निग्धवणीसवणे । नूनं यास्यत्यत्यमरमिथुनप्रेक्षणीयामवस्था मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डः ॥१८॥ (सजी० ) छत्रेति ॥ हे मेघ! परिणतैः परिपक्कैः फलैर्योतन्त इति तथोक्तैः। आषाढे वनचूताः फलन्ति पच्यन्ते च मेघवातेनेत्याशयः । काननानैर्वनचूतैश्छन्नोपान्त आवृतपाचोऽचल आम्रकूटादिः स्निग्धवेणीसवणे मरणकेशबन्धच्छाये। श्यामवर्ण इत्यर्थः ॥ "वेणी For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96