Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ सञ्जीवनीचारित्रवर्द्धनी भावप्रबधनीसहिते तु केशबन्धे जलस्तौ” इति यादवः ॥ त्वयि शिखर शृङ्गमारूठे सति ॥ “यस्य च भावेन भावलक्षणम्" इति सप्तमी ॥ मध्ये श्यामः शेषे मध्यादन्यत्र विस्तारे परितः पाण्डुर्हरिणः॥ "हरिणः पाण्डुरः" इत्यमरः ॥ भुवः स्तन इव । अमरमिथुनानाम् । खेचराणामिति भावः । प्रेक्षणीयां दर्शनीयामवस्थां नूनं यास्यति । मिथुनग्रहणं कामिनामेव स्तनत्वेनोत्प्रेक्षा संभवतीति कृतम् । यथा परिश्रान्तः कश्किामी कामनीनां कुचकलशे विश्रान्तः सन्स्वपिति तद्वभवानपि भुवो नायिकायाः स्तन इति ध्वनिः ॥ १८ ॥ ( चारि० ) अध्वक्लान्तं प्रतिमुखगतं सानुमानाम्रकूट. स्तुङ्गेन त्वां जलद शिरसा वक्ष्यति श्लाघ्यमानः। आसारेण त्वमपि शमयेस्तस्य नैदावमग्निं सद्भावाः फलति न चिरेणोपकारो महत्सु ॥१॥ क्षेपकोऽयम् ॥ छनोपान्त इति-भो मेघ! अचलः पर्वतो नूनं निश्चितं अमरमिथुनप्रेक्षणीयामवस्था देवयग्मदर्शनीयां दशां यास्यति । प्राप्स्यति । क सति, त्वयि भवति शिखर शृङ्ग आरूढे आरुह्य स्थिते सति किं विशिष्टे त्वयि स्निग्धवेणीसवणे । श्यामत्वात् चिकणवेणिकादृशे । अचलः कीहक् । काननाम्रविपिनरसालैः छनोपान्तः आच्छादितनिकटः । कीदृशैः काननानैः परिणतानि पक्कानि पीतच्छवीनि यानि फलानि तैोतन्त इति घोतिनस्तैः । उत्प्रेक्षते-भुवः पृथिव्याः स्तन इच । कीदृशः । मध्ये श्यामः । पुनः कीदृशः, शेषविस्तारपाण्डुः । स्तनस्था नीयः पर्वतः श्यामिकास्थानीयो मेघः पाण्डुतास्थानीयाः काननाम्राः। अमरा निर्जरा देवा इत्यमरः । मिथुनं तु द्वयोराशिभेदे स्त्रीपुंसयुग्मके इति मेदिनीकारः । आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभ इत्यमरः ॥१८॥ (भाव० ) किञ्च, हे मेघ ! परिपाकपाण्डुरैरानैः परितो वृतो मध्ये नीलवन त्वया सहितोऽसौ गिरि भूदेव्याः स्तन इव सुरमिथुनैस्त्प्रेक्षयिष्यते ॥ १८ ॥ स्थित्वा तस्मिन्वनचरवधूभुक्तकुझे मुहूर्त तोयोत्सर्गद्वततरगतिस्तत्परं वर्त्म ताणः । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपाद विशीर्णा भक्तिच्छेदैरिव विरचितां भूतिमंगे गजस्य ॥ १९ ॥ ( सञ्जी०) स्थित्वेति ॥ हे मेघ ! वने चरन्ति ते वनचराः ॥ "तत्पुरुषे कृति बहलम्" इति बहुलग्रहणाल्लुग्भवति ॥ तेषां वधूभिभुक्ताः कुक्षा लतागृहा यत्र तस्मिन् ॥ "निकुञ्ज. कुक्षौ वा क्लीवे लतादिपिहितोदरे" इत्यमरः ॥ तत्र ते नयनविनोदोऽस्तीत्यर्थः । तस्मिना. म्रकटे मुहूर्तमल्पकालम् । न तु चिरं, स्वकार्यविरोधादिति भावः ॥ "मूहुर्तमल्पकाले स्याद्ध. टिकाद्वितयेऽपि च" इति शब्दार्णवे ॥ स्थित्वा विश्रम्य । तोयोत्सर्गेण "त्वामासार-" इत्यु. कवर्षणेन दुततरगतिलाघवाद्धेतोरतिक्षिप्रगमनः सन् । तस्मादाम्रकूटात्परमन्तर वर्त्म मार्ग तीर्णाऽतिकान्तः । उपलैः पाषाणविषमे विन्ध्यस्याः पादे प्रत्यन्तपर्वते ॥ “पादाः प्रत्यन्त. पर्वता" इत्यमरः ॥ विशीर्णो समन्ततो विसमराम् ॥ एतेन कस्याश्चित्कामुक्याः प्रियतमचर पातोऽपि ध्वन्यते ॥ रेवां नर्मदाम् ॥ " रेवा तु नर्मदा सोमोजवा मेकलकन्यका" इत्य. मरः ॥ गजस्या शरीरे भक्तयो रचनाः रेखा इति यावत्॥ "भक्तिनिषेवणे भागे रचनायामू" इति शब्दार्णवे ॥ तासां छेदैर्भङ्गिभिर्भाभिर्विरचितां भूति शृङ्गारमिव भसितमिव वा॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96