Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सञ्जीवनीचारित्रवर्द्धनी भावप्रबोधिनीसहिते
बहेंग पिच्छेन ॥ "पिच्छबहें नपुंसके” इत्यमरः ॥ गोपवेषस्य विष्णोर्गोपालस्य कृष्णस्य श्यामं वपुरिव । अतितरां कान्तिं शोभामापत्स्यते प्राप्स्यते ॥ १५ ॥ .
(चारि०) रत्नेति-भो मेघ ! एतदाखण्डलस्य इन्द्रस्य धनुःखण्डं कार्मुकशकलं पुरस्तादने वल्मीकानात् प्रभवति उद्यते । किं विशिष्ट प्रेक्ष्यं प्रेक्षितुं योग्यं दर्शनीयमित्यर्थः । उत्प्रेक्षते-रत्नच्छायाव्यतिकर इघ । रत्नानां पद्मरागवैडूर्यादीनां मणीनां छायानां दीप्तीनां व्यतिकर इव व्यतिषङ्ग इव । मणीनां नानावर्णत्वादसावुत्प्रेक्षा । एतत्किं येन धनुषा कृत्वा ते तव श्यामं वपुः शरीरं अतितरां कान्ति आपत्स्यते दीप्तिं प्राप्स्यति । केन कस्येव । स्फुरितरुचिना देदीप्यमानदीप्तिकेन बहेण शिखण्डेन गोपस्य वेष इव वेषो यस्य तस्य विष्णोवसुदेवसूनोरिख । यथा कृष्णस्य श्यामं वपुर्ब हेण कान्ति लभते तथेत्यर्थः । श्यामत्वान्मेघस्योपमानं कृष्णः नानावर्णत्वाद्धनुषो बर्ह मुपमानम् । र तु जातश्रेष्ठेऽपि मणावपि नपुंसक इति मेदिनीकारः । छाया सूर्य प्रिया कान्तिरित्यमरः । छाया स्यादातपाभावे प्रतिबिम्बार्कयोषि. ताः । पालनोक्ता दीप्ति सच्छोभा पङ्किषु स्त्रियामिति मेदिनीकारः। अथ व्यतिकरः पुंसि व्यसनव्यतिषङ्गायोरिति विश्वः । शिखा चूडा शिखण्डस्तु पिच्छबहें नपुंसक इत्यमरः ॥१५॥
( भाव० ) अनेकरत्नप्रभासञ्चय इवेदमने वल्मीकाग्रात् समुद्यदिन्द्रधनुः प्रेक्षणीयमास्ते। श्यामे तव वपुषि तत्प्रभासम्मिश्रणात् मयूरपिच्छावतंसस्य भगवतः कृष्णस्येव सुपमा त. वास्ति॥ १५ ॥ त्वय्यायत्तं कृषिफलमिति भ्रविलासानभिज्ञैः
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः । सद्यः सीरोत्कषणमुरभि क्षेत्रमारुह्य मालं
किंचित्पश्चाइज लघुगतिभूय एवोत्तरेण ॥ १६ ॥ ( सञ्जी० ) त्वयोति ॥ कृषेर्हलकर्मणः फलं सस्यं त्वयि ॥ अधिकरणविवक्षायां सप्तमी ॥ आयत्तमधीनम् ॥ "अधीनो निघ्न आयत्तः" इत्यमरः ॥ इति हेतोः प्रीत्या स्निग्धैः । अकृत्रिमप्रेमा रित्यर्थः । भ्रूविलासानां भ्रूविकाराणामनभिज्ञैः । पामरत्वादिति शेषः । जनपदवधूनां पल्लीयोषितां लोचनैः पीयमानः सादरं वीक्ष्यमाणः सन् । मालं मालाख्य क्षेत्रं शैलप्रायमुन्नतस्थलम् ॥ "मालमुन्नतभूतलम्" इत्युत्पलमालायाम् ॥ सद्यस्तत्कालमेव सीरहलैरु. स्कषणेन सुरभि घ्राणतर्पणं यथा तथारुह्य । तत्राभिवृष्येत्यर्थः ॥ "सुरभिर्घाणतर्पणः" इत्यमरः ॥ किंचित्पश्चाल्लघुगतिस्तत्र निर्वृष्टत्वात्क्षिप्रगमनः सन् ॥ "लघु क्षिप्रमरं द्रुतम्" इत्य मरः ॥ भूयः पुनरप्युत्तरशैवोत्तरमागेणैव बज गच्छ ॥ तृतीयाविधाने "प्रकृत्यादिभ्य उपसं. ख्यानम्" इति तृतीया ॥ यथा कश्चिदू बहुवल्लभः पतिः कुत्रचित्क्षेत्रे गूट विहृत्य ॥ "क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः" इति विश्वः ॥ दाक्षिण्यभङ्गभयानीचमार्गेण निर्गत्य पुनः सर्वाध्यक्ष इव संचरति तद्वदिति ध्वनिः ॥१६॥
(चारि०) त्वय्यायत्तमिति-भो मेघ ! त्वं मालं उन्नतस्थलं आरुह्य किंचित्पश्चादीषस्पश्चिमेन लघुगतिर्मन्दगमनः सन् वज गच्छ। भूयः पुनरपि उत्तरेणैव व्रज । कीदृशं क्षेत्र । सद्यस्तरक्षणात् सीरेण इलेनोत्कषणं विदारणं तेन सुरभीणि क्षेत्राणि यस्य तत् । त्वं कीदृशः । इति हेतोरतः कारणात् जनपदवधूलोचनैस्तद्विषयाङ्गनानयनैः पीयमानः सादरं बीत्यमाणः । किंविधैः भूविकारे कटाक्षादिनिरीक्षणे ऽनभिरकुशलैः । पुनः किंविधैः प्रीतिस्निग्धैः । प्रीत्या स्ने हेन स्निग्धैः स्नेहयुक्तः । इति कुतः । कृषिफलं त्वय्यायत्तं त्वत्स्वाधीनम् । कृषको लाले हलम् ।। गोचारणं च सीरोऽथेत्यमरः। त्रिषु निष्पन्ने स्निग्धं स्नेहयुते चिक्कणेऽपि
For Private And Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96