Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदते-पूर्वमेघः । तदन्तिक स्वकुशलसन्देशं प्रेपयितुमिच्छन् स यक्षोऽभिनवैः कुटजपुष्पैरचिताय तस्मै प्रेमसम्भाषणपूर्वकं स्वागतमुदीरयामास ॥ ४ ॥ ननु चेतनसाध्यमर्थ कथमचेतनन कारयितुं प्रवृत्त इत्यपेक्षायां कविः समाधत्तेधूमज्योतिःसलिलमरुतां संनिपातः क मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिमिः प्रापणीयाः । इत्योत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकपणाश्चेतनाचेतनेषु ॥ ५ ॥ (सजी०) धूमेति ॥ धूमश्च ज्योतिश्च सलिलं चमरुद्वायुश्च तेषां संनिपातः संघातो मेघः क्व । अचेतनत्वात्संदेशानह इत्यर्थः । पटुकरणैः समथेन्द्रियैः। “करणं साधकतम क्षेत्रगानेन्द्रियेध्वपि" इत्यमरः । प्राणिभिश्चेतनैः । “प्राणी तु चेतनो जन्मा" इत्यमरः। प्रापणीयाः प्रापयितव्याः संदिश्यन्त इति संदेशास्त एवार्थाः । इत्येवमौत्सुक्यादिष्टार्थीद्युक्तत्वात् । “इष्टार्थोद्युक्त उत्सुकः" इत्यमरः । अपरिगणयन्त्र विचारयनगुह्यको यक्षस्त मेचं ययाचे याचितवान् । “यात्रु याञ्चायाम्" । तथा हि । कामार्ता मदनातुराश्चेतनाश्चाचेतनाश्च तेषु विषये प्रकृतिकृपणाः स्वभावदीनाः । कामान्धानां युक्तायुक्तविवेकशून्यत्वादचेतनयाञ्चा न विरुध्यत इत्यर्थः । अत्र मेव-संदेशयोर्विरूपयोर्घटनाद्विषमालंकारः। तदुक्तम्-"विरुद्धकार्यस्योत्पत्तिर्यवानर्थस्य वा भवेत् । विरूपवटना चासो विषमालंकृतिस्त्रिधा।" इति, सा चार्थान्तरन्यासानुप्राणिता तत्समर्थकत्वेनैव चतुर्थपादे तस्योपन्यासात् ॥६॥ (चारि० ) मेवस्य निश्चेतनत्वात्प्रार्थना न युक्तत्याशङ्क्याह-- धूमज्योतिरिति । धूमज्योतिरग्निः स च सलिलं पानीयं च मरुतश्व तेपामचेतनानां सनिपातः समुदायस्यो मेवः क्व । पनि स्पष्टानि करणानीन्द्रियाणि येषां ते तैः प्राणभिः पुम्भिः सचेतनैः प्रापणीया नेतव्याः सन्दिश्यन्ते कथ्यन्ते इति सन्देशाः ते च ते अर्थाश्च क। इत्येतदसम्भाव्यमिति । औत्सुक्यं विरहपीडा तस्मादपरिगणयन् अविचारयन् गुह्यको यक्षस्तं वनं ययाचे । प्रार्थितवान् । अचेतनं मे किमिति प्रार्थयांञ्चक्रे इत्याशडामर्थान्तरन्यासेन निरस्यति-कामेन मन्मथेनार्ताः पीडिताः प्राणिनश्चेतनाश्चाचेतनाश्च ते स्थावरजङ्गमास्तेषु प्रकृत्या स्वभावेन कृपणा दीना भवन्ति । यथा सीतादिवियोगात्काममोहिता रामप्रमुखा अचेतनं न याच्यमिति विवेक्तमसमर्थाः । तथासावपीत्यर्थः । नन्यत्र यक्षगुह्यकयोरभावात्तयो दाद्यक्षश्चक्रइति गुह्य कस्तं ययाच इति । एतदसङ्गतिमञ्च तीति चेनैवम् । निधिगृहनाद्रक्षणाद् गुह्यक इति यक्ष इति च अन्वर्थसंज्ञाकरणाद्यक्षगुह्यकौ धनदे. ऽपीति यादवाभिधानात् । धनदवाचकेन गुह्यकशब्देन तस्यानुचरस्याप्युपचारेणाभिधानम् ॥६॥ (भाव०)अग्निजलवायूनां सङ्घातात्मको मेघः कुत्र ? चेतनैः प्राणिभिः प्रेषणीयाः सन्द. शाश्च व ? उत्कण्ठावशादिदमखिलमविगणयन् स यक्षो मेवं प्रार्थयामास । कामबाणपीडिता हि चेतनाचेतनयोविवेक न जानते ॥६॥ संप्रति याञ्चाप्रकारमाहजातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद दूरवन्धुर्गतोऽहं याचा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96