Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सञ्जीवनीचारित्रवर्द्धनी भावप्रबोधिनीसहिते-- ५ (भाव०) कौतुकजनकस्य तस्य पुरः क्षणं स्थित्वा प्रयलसंस्तम्भिताश्रुवेगः स यक्षश्चिरं चिन्तयामास । मेघदर्शने हि सति कान्तासहितस्यापि जनस्य चेतः क्षणं व्याकुलीभवति । यस्य प्रणयी जनो दूरे तिष्ठति तस्य पुनः किं वक्तव्यम् ॥ ३ ॥ अथ समाहितान्तःकरणः सन्कि कृतवानित्यत आहप्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् । स प्रत्यौः कुटजकुसुमैः कल्पिताघाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥ (सञ्जी० ) प्रत्यासन्न इति॥ सयक्षः। यश्चिरं दध्यौ स इत्यर्थः । नभसि श्रावणे। “नभः वं श्रावणो नभाः" इत्यमरः । प्रत्यासन्न आपाढस्यानन्तरं संनिकृष्टे । प्राप्से सतीत्यर्थः । दयिनाजीवितालम्बनार्थी सन् । वर्षाकालस्य विरह दुःखजनकत्वात् "उत्पन्नानर्थप्रतीकारादनोंत्पत्तिप्रतिबन्ध एवं वरम्” इति न्यायन प्रागेव प्रियाप्राणधारणोयायं चिकीर्षुरित्यर्थः । जीवनस्योदकस्य मतः पटबन्धो जोमूतः । पोदरादित्वात्साधुः । "मृतः स्यात्पटबन्धेऽपि” इति रुदः । तेन जीमूतेन जल घरेण प्रयोज्यन स्वकुशलमयी स्वक्षेमप्रधान प्रवृत्ति वार्ताम् । “वार्ता प्रवृत्तिवृत्तान्तः” इत्यमरः । हारथिप्यन्प्रापनियन् । "लट् शेषेच" इति चकारात्कियोपर. दाल्लुट्प्रत्ययः । जीवनाथ कर्म जीवनप्रदनैव कर्तव्यमिति भावः । "हक्रोरन्यतरस्याम्" इति कर्मसंज्ञाया विकल्पाल्पक्षे कर्नरि तृतीया । प्रत्यग्रेभिनवैः कुटजकुसुमैगिरिमल्लिकाभिः । "कुटजी गिरिमल्लिका” इति हलायुधः । कल्पितार्थाय कलि तोऽनुष्टितोऽर्घः पूजाविधिर्यस्मै तस्मै । "मूल्ये पूजाविधावः” इत्यमरः । तस्मै जोडताय । “क्रियाग्रहणमपि कर्तव्यम्" इति प्रदानत्वाच्चतुर्थी । प्रीतिप्रमुखानि प्रीतिपूर्वकाणि वचनानि यस्मिन्कर्मणि तत्प्रीति. प्रमुखवचनं यथा तथा। शोभनमागतं स्वागतं स्वागत वचनं प्रीतः सन्व्याजहार । कुशलागमनं पप्रच्छेत्यर्थः । नाथन त्वत्र "प्रत्यासन्ने मनसि" इति साधीयान्पाठः कल्पितः । प्रत्यापन्ने प्रकृतिमापने सतीत्यर्थः । यस्तु लेनेच पूर्वपाविरोधः प्रदर्शितः सोऽस्माभिः "आषाढस्य प्रथमदिवसे” इत्येतत्पाठविकल्पसमाधानेनैव समाधाय परिहृतः ॥ ४ ॥ (चारि०) विचारानन्तरं किमकरोदित्याह-- प्रत्यासन्न इति । जीमूतेन मेघन स्वस्यात्मनः कुशलं क्षेमं तद्पां प्रवृत्तिं वाती प्रापयितुं प्रीतः सम्पादितसत्कारोऽ सौ मत्कार्य सम्पादयिष्यतीति सन्तुष्टः सन् स यक्षस्तस्मै मेघाय न्वागतं शोभनमागमनं ते इति व्याजहार । पप्रच्छ। कीदृशं, प्रोत्या स्नेहेन प्रसुखं श्रेष्ठं वचनं चत्र तत् तद्यथा । माङ्गल्यवान् कुशलं तवत्यादि। काशाय तस्मै प्रत्यग्रेनेत्रीनैः कुटजानां गिरिमल्लिकानां कुसुमैः कल्पिती इत्तोऽयी पूजाविधिर्यस्य स तस्मै । कीदृशः नभसि श्रावणे मासि प्रत्यासन्ने निकटस्थिते सति दयिता कान्ता तस्या जीवितं जीवन तस्याऽवलम्बनं धागणं तदर्थयते । प्रत्यासन्ने मनसीति पाठे ध्यानव्याकुलिने चेतसि पुनः प्रतिष्टिते सतीत्यर्थः । वापि जीवितालम्बनार्थामिति पाठस्तत्रालम्बनमर्थः प्रयोजनं यस्या इति प्रवृत्तिविशेषणम् । तपात्ययस्य संनिधानत्वेन निजनिधनशड्या सापि मरिष्यतीति स्वप्रवृत्ति मेघेन प्रापयितुं पूजापूर्व तस्मै स्वागतमप्राक्षादित्यर्थः । नमः खं श्रावणो नभा इत्यनेकार्थः । नभाः श्रावणिकश्च स इत्यमरः । वार्ता प्रवृत्तिवृत्तान्त इत्यभिधानचिन्तामणिः । कुटजो गिरिमल्लिकति हलायुधः । तस्मा इति चतुर्थी चाशिघ्या युध्येति चतुर्थी ॥४॥ ( भाव० ) प्रत्यासने वर्षाकाले विरहिण्याः स्वप्रियायाः प्राणरक्षगं कामयमानो मेघद्वारा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96