Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
मञ्जीवनीचारित्रवर्द्धनी भावप्रबोधिनीसहिते
७
(सञ्जी०) जातमिति ॥ हे मेघ, त्वां भुवनेषु विदिते ॥ "निष्टा" इति भृतार्थे क्तः । “मति बुद्धि-" इत्यादिना वर्तमानार्थत्वे तु "क्तस्य च वर्तमाने” इति भुवनशब्दस्य पश्यन्ततानियमात्समासो न स्यात् । “क्तेन च पूजायाम्" इति निषेधात् ॥ पुष्कराश्चावर्तकाश्च केचिन्मे घानां श्रेष्ठास्तेषां वंशेजातम् । महाकुलप्रसूतमित्यर्थः। कामरूपमिच्छाधीनविग्रहम । दुर्गादिसंचारक्षममित्यर्थः । मघोन इन्द्रस्य प्रकृतिपुरुषं जानामि । तेन महाकुलप्रसूतत्वादिगुणयोगि त्वेन हेतुना विधिवशाद दैवायत्तत्वात् ॥ "विधिविधाने देवेच" इत्यमरः॥ "वशमायत्ते वशमिच्छाप्रभुत्वयोः” इति विश्वः ॥ दूरे बन्धुर्यस्य स दूरबन्धुर्वियुक्तभार्योऽहं त्वय्यर्थित्वं गतः । ननु याचकस्य याञ्चायां याच्यगुणोत्कर्षः कुत्रोपयुज्यत इत्याशङ्कय-दैवाद्याच्याभोऽपि ला. घवदोषाभाव एवोपयोग इत्याह-याजेति ॥ तथा हि-अधिगुणेऽधिकगुणे पुंसि विषये याचा मोघा निष्फलापि वरमीषत्प्रियम् । दातुर्गुणाढ्यत्वात्प्रियत्वं याञ्चावैफल्यादीपत्प्रिय. स्वमिति भावः ॥ अधमे निर्गुणे याचा लब्धकामापि सफलापि न वरम् । ईषत्प्रियमपि न भवतीत्यर्थः ॥ “देवाढते वरः श्रेष्ठे त्रिषु कीब मनाविप्रये" इत्यमरः ॥ अर्थान्तरन्यासानुप्राणितः प्रेयोऽलंकारः । तदुक्तं दण्डिना-"प्रेयः प्रियतराख्यानम्" इति ॥ एतदाद्ये पादत्रये चतुर्थपादस्थेनार्थान्तरन्यासेनोपजीवितमिति सुव्यक्तमेतत् ॥ ६॥ (चारि०) स्तुतिपूर्व प्रार्थनां विधत्ते--
जातमिति । भो जलद ! पुष्कराश्वावर्त्तकाश्च कल्पान्तकालजलदास्तेषां वंशेऽन्वये जात. मुत्पन्नं जानामि । अवगच्छामीत्यनेनाभिजातं प्रसिद्धम् । कीदृशं त्वां कामरूपं स्वेच्छाचारिणम् । तथा मघोन इन्द्रस्य प्रकृतिपुरुषम् । तेन हेतुना विधिदैवं तस्य वश आधीनं तस्माद् दूरबन्धुर्विप्रकृष्टभार्योऽहं त्वां प्राप्तः । तमुचेतनं किमिति प्रार्थितवानित्याशड्याह--यतो याचा अधिगुणे ऽधिका औदार्यादयो गुणा यस्य सोऽधिगुणस्तस्मिन् । मोघा निरर्थकापि वर प्रियम् । देवावृते वर श्रेष्टे त्रिषु क्लीब मनाविप्रयमिति यादवः । अधमे गुणरहिते लब्धकामा प्राप्ताभिलाषापि सा वरं न । वंश इत्यत्र जनिकर्तुः प्रकृतिरत्यपादानसंज्ञायां पञ्चमी स्यादिति न । वंशस्योत्पत्तिरूपत्वेन प्रकृतित्वाभावात् ॥६॥
(भाव० ) स यक्षो मेघमाह-हे मेघ ! त्वं कल्पान्तकालिकपुष्करावर्तकाख्यमहामेघकुलप्र सूतोऽसि । किञ्च, इन्द्रस्य प्रधानपुरुषोऽसीत्यपिजाने । तेन हेतुना दूरस्थितभार्योऽहं सत्कुलीनं सुपदस्थं त्वां याचे । श्रेष्ठे पुंसि कृता याञ्चा व्यर्थाऽपि वरम् , अधमे सफलाऽपि न वरम् ॥६।'
संतप्तानां त्वमसि शरणं तत्पयोद मियायाः ____ संदेश मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहा ॥ ७ ॥ (सञ्जी०) संतसानामिति ॥ हे पयोद ! त्वं संतप्तानामातपेन वा प्रवासविरहेण वा संज्वरितानाम् ॥ “संतापः संज्वरः समौ” इत्यमरः । शरणं पयोदानेनातपस्विन्नानां स्वस्थानप्रेरणया च रक्षकोऽसि ॥ "शरणं गृहरक्षित्रोः" इत्यमरः ॥ तत्तस्मात्कारणाद्धनपतेः कुबेरस्य क्रोधेन वि. श्लेषितस्य प्रियया वियोजितस्य मे मम संदेशं वार्ता प्रियाया हर। प्रियां प्रति नयेत्यर्थः ॥ संबन्धसामान्ये षष्ठी ॥ संदेशहरणेनावयोः संतापं नुदेत्यर्थः ॥ कुत्र स्थाने सा स्थिता तत्स्थानस्य वा किं तत्राह-गन्तव्येति ॥ बहिर्भवं बाह्यम् ॥ "बहिर्देवपञ्चजनेभ्यश्च" इति यञ् ॥ बाह्य उद्याने स्थितस्य हरस्य शिरसि या चन्द्रिका तया धौतानि निर्मलानि हाणि धनिकभवनानि यस्यां सा तथोक्ता ॥ "हाणि धनिनां वासः” इत्यमरः ॥ अनेन व्यावर्त्तकम
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96