Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सञ्जीवनीचारित्रवर्द्धनी भावप्रबोधिनीसहित
तस्मिन्नौ कतिचिदवलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं क्रीडापरिणतगजप्रेक्षणीयं ददर्श || २ ||
1
(सञ्जी०) तस्मिन्निति ॥ तस्मिन्नद्वौ चित्रकूटाहौ । अबलाविप्रयुक्तः कान्ताविरही। कनकस्य वलयः कटकम्। “कटकं वलयोऽस्त्रियाम्" इत्यमरः । तस्याभ्रंशेन पातेन रिक्तः शून्यः प्रकोष्ठःकूपराधः प्रदेशो यस्य स तथोक्तः । “कक्षान्तरे प्रकोष्ठः कूर्पराधः" इति शाश्वतः । विरहदुःखात्कुश इत्यर्थः । कामी कामुकः स यक्षः । कतिचिन्मासान् । अष्टौ मासानित्यर्थः । " शेषान्मासान् गमय चतुरः" इति वक्ष्यमाणत्वात् । नीत्वा यापयित्वा । आषाढानक्षत्रेण युक्ता पौर्णमास्यापाढ़ी । "नक्षत्रेण युक्तः कालः" इत्यण् । “टिड्ढाणज्" इत्यादिना ङीप् । साषायस्मिन्पौर्णमासीत्याषाढो मासः । “सास्मिन्पौर्णमासीति संज्ञायाम्" इत्यण् । तस्य प्रथमदिवसे आश्लिष्टसानुमाक्रान्तकूटम् । वप्रक्रीडा उत्खातकेलयः । “उत्खातकेलिः शृङ्गाद्यैdurist निगद्यते" इति शब्दार्णवे । तासु परिणतस्तिर्यग्दन्तप्रहारः । “तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः” इति हलायुधः । स चासौ गजश्च तमित्र प्रेक्षणीयं दर्शनीय मेघं ददर्श । गजप्रेक्षणीयमित्यत्रेव लोपाल्लुप्तोपमा । केचित् “आषाढस्य प्रथमदिवसे" इत्यन्त्र " प्रत्यासन्ने नभसि” इति वक्ष्यमाणनभोमास प्रत्यासत्त्यर्थ “प्रशमदिवसे " इति पाठं कल्पयन्ति । तदसँगतम् । प्रथमातिरेके कारणाभावात् । नभोमासस्य प्रत्यासत्यर्थमित्युक्तमिति चेन्न । प्रत्यासतिमात्रस्य मासप्रत्यासत्त्यैव प्रथमदिवसस्याप्युपपत्तेः । अत्यन्तप्रत्यासत्तेरुपयोगाभावेनाविवक्षितत्वात् । विवक्षितत्ये वा स्वपक्षेऽपि प्रथमदिवसातिक्रमेण मेघदर्शनकल्पनायां प्रमाणाभावेन तदसंभवात् । प्रत्युतास्मत्पक्ष एवं कुशल संदेशस्य भाग्यनथप्रतीकारार्थस्य पुरत एवानुमानमुक्तं भवतीत्युपयोगसिद्धिः । ननून्मत्तस्य नायं विवेक इति चेन्न । उन्मत्तस्य arat प्रतीकारार्थं प्रवृत्तिरपीति संदेश एवं मा भूत् । तथा च काव्यारम्भ एवाप्रसिद्धः स्यादित्यहो मूलच्छेदी पाण्डित्यप्रकर्षः । कथं तर्हि “ शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणt" इत्यादिना भगवत्प्रबोधावधिकस्य शापस्य मासचतुष्टयावशिष्टस्योक्तिः, दशदिवसाधिक्यादिति चेत्-स्वपक्षेऽपि कथं सा, विंशतिदिवसैन्यूनत्वादिति संतोष्टव्यम् । तस्मादीषद्वैपम्यमविवक्षितमिति सुष्ट क्तं "प्रथम दिवसे" इति ॥ २ ॥
( चारि० ) अत्र स्थितश्च किं व्यधादित्याकाङ्क्षायां व्याचष्टे
तस्मिन्निति - कामी कामुकः स यक्षस्तस्मिन् चित्रकूटगिरे रेवानुवृत्तिस्तच्छब्देन विधीयत इत्यनुमन्तव्यम् । कतिचित्कियतोऽपि शेषान्मासानतिवाह्याऽऽषाढस्य प्रथमः प्रवरश्चासौ दिवसश्च । यस्मिन् वासरे स मासः पूर्तिमियर्ति सा, आपाव्यमावास्येति भावः । तस्य प्रवरत्वं च क्रुप्यादिकार्याणां तस्मिन्प्रारम्यमाणत्वात् । मेवं यस्मिन् ददर्श विलोकितवान् । कीदृशम् | आश्लिष्टा आलिङ्गिताः सानवः शिखराणि येन तम् । तथा वप्रस्य तदस्य क्रीडा विदारणं तत्र परिणतस्तिर्यग्दन्तप्रहारश्चासौ गजश्च तत्प्रेक्षितुं योग्यो रमणीयो यस्तम् । उपमालङ्कारः । कीEat at saat प्रियया विप्रयुक्तो विरहितोऽत एव कुशशरोरत्वात्कनकस्य हेम्नो वलयानि कङ्कणानि तेपां भ्रंशोऽधःपतनं तेन रिक्तौ शून्यौ प्रकोष्ठौ कूपराधोभागस्तथा । raisedीति कामी । अतिशायने मत्वर्थीयः । अत एवालङ्करणमकरोन्न कामी मण्डनप्रिय इति वचनात् । "आदि प्रवरौ प्रथम प्रवाने परिकीर्तितौ । वप्रो रोधसि केदारे प्राकारे पितरि स्मृतः । तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः " | परिणतग्रहणेनैव सिद्धे पुनर्गजग्रहणं
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96