Book Title: Meghdutam
Author(s): Kalidas, Narayan Shastri Riste
Publisher: Jai Krishnadas Haridas Gupta

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदते-प्रवेमघः। स्थानं सूचितमाश्रमेष्विति बहुवचनेन । सीतां प्रति रामस्य हनुमत्संदेशं मनसि निधाय मेघसंदेशं कविः कृतवानित्याहुः । अत्र काव्ये सर्वत्र मन्दाक्रान्तावृत्तम् । तदुक्तम्-"मन्दाक्रान्ता जलधिषडगम्भॊ नतौ ताद् गुरू चेत्" इति ॥ १ ॥ चारित्रवर्द्धनी। नत्वा पद्मावतीपादपद्मं सद्म श्रियामहम् । मेघदूताख्यकाव्यस्य कुत्रे टीका यथामति ॥१॥ एवं हि किल श्रूयते । समस्तप्रशस्तसर्वास्तिकप्रवरसमभिलक्ष्यमाणवैभवस्तत्रभवद्भवानीवल्लभसखो निखिलकिन्नरप्रवरोत्तमाङ्गशेखरीकृतविततशासनः कदाचित्कमपि कनककमलरक्षाध्यक्षं यक्षमादिदेश। सोऽपि तदाज्ञावश्यो लसदक्षुण्णप्रणयगुणानुबद्धाशयोऽपि 'मानससरोवरमार । तत्र कथं कथमपि त्रियामायामद्वयमतिवाह्य रजन्यपि निर्जगामैवेति मन्यमानो निजकान्ताविरहकातरः स्वाश्रयमेवायासीत् । अत्रान्तरे क्षणदाप्रान्तसमुत्पन्नप्रबोधविधूतश्रोत्रतालास्तरलतरशुण्डादण्डास्फालनप्रोदलितसकलजलजजातयो दिग्गजास्तत्तडागभागमालोडयाञ्चक्रुर्वक्राः । राजराजोऽपि प्रातरेवाकर्णिततवृत्तान्तः समुत्पन्नरोषकषायविलोचनश्चपलतर तमाहूय स्वकीयजायाव्यसनिनमज्ञया तयैव तव सम्वत्सरमदर्शनमस्तु महिमा च विलीयतामित्यशाप्सीचेममत्र वस्तुनिर्देशमुद्दिशन्नाह-चिकीर्षितस्य काव्यस्याशीनमस्क्रिया वस्तुनिदेशो वापि तन्मुखमिति न्यायात्।। ___ कश्चिदनिर्दिष्टनामधेयो यक्षो गुह्यको रामेण दाशरथिनोपलक्षितो गिरी रामगिरिश्चित्रकूट: पर्वतस्तस्याश्रमा मुनिगृहास्तेषु वसतिमवस्थानं चक्रे कृतवान् । बहुवचन विरहित्वादेकत्रावस्थानासम्भचसूचनार्थम् । कीदृशेषु । जनकस्य तनया सीता तस्याः स्नानेनाप्लवनेन पुण्यानि पवित्राण्युदकानि येषु तेषु । एतेन पतिव्रतासंयोगात्पुण्यत्वं निरूपितम् । तथा स्नि. ग्धाः शाद्वलदलाश्छायाऽनासपस्तत्प्रधानास्तरवो वृक्षा येषु ते तेषु । अनेन वियोगिनो योग्य स्थानं ध्वन्यते । ननु निजस्थानमलकां परित्यज्य तपोवनाश्रये कोऽस्य हेतुरित्याह-भतुः स्वामिनः कुबेरस्य शापः कोपवचस्तस्मादस्तगतः प्रतिहतो महिमा दूरविलोकनश्रवणादिशक्तिर्यस्य स तथा । कीदृशेन वर्षेण संवत्सरेण सम्भुज्यते समाप्यते वर्षभोग्यः । यद्वा वर्ष भोग्यः कालावनोरत्यन्तसंयोगे द्वितीया । तेन तथा कान्ताया वल्लभाया विरहो वियोगस्तेन गुरुर्दर्वहस्तेन । अथवा कान्ताविरहे गुरुरिव गुरुरुपदेशकः । तेन स्त्रीवियोगित्वेऽमुष्य मनुष्यपरिज्ञानत्वात् । ननु किमर्थं स्वामी शशापेत्याह-आत्मीयोऽधिकारो व्यापारस्तडागरक्षणलक्षणस्तस्मिन् प्रमत्तो विकलः । अतो रागस्य स्थितिमात्रात्तीर्थभूतोऽयं पर्वतः इति तमेवाबीभजत् । यतो "यदध्यासितमर्ह द्विस्तद्धि तीर्थ प्रचक्षते” इात । जनकात्मजाविरहितो रामस्तनासीनस्तां प्राप्तवान् । अतो ममाप्येवं स्थानमहिम्ना कान्तासङ्गतिर्भविष्यतीति तस्याश्रयणम् । अत्र वर्षभोग्यत्वेन षड्ऋतुष्वपि नानाप्रकारविरहिदुःखानुभवनं दर्शितम् । अत एव "येन सम्वत्सरो दृष्टः सकृत्कामश्च सेवितः। तेन सर्वमिदं दृष्ट पुनरावर्तितं जगत् ॥ नयत्र शापावसानस्तत्र रागस्य स्थितिकारणात् । कभिप्रायाभावाच्च आत्मनेपदं कथमिति न वाच्यम् । पदसंस्कारेण साधुत्वाङ्गीकारात् । सर्वत्र मन्दाक्रान्ता वृत्तम् । तल्लक्षणं यथा"मन्दाक्रान्ता जलधिषड्गैम्भॊनतौ ताद् गुरू चेत्" । प्रावृडाश्रयेण प्रवासविप्रलम्भशृङ्गारः॥१॥ भावप्रबोधिनी। कश्चिद्यक्षः स्वाधिकारसम्पादने स्खलितः, भर्ना कुचरेण वर्षमानं यावद्वनितादर्शन परिहतुं शप्तः सन् अपगतनिजालौजिकसामर्थ्यश्चित्रकूटगिरी जनकतनयापावितेष्वाश्रमेषु निवा. संकल्पितवान् ॥१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96