Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 21
________________ काव्यमाला। चष्टे वक्ति चान्यथा । तस्योक्तस्योत्तरं ददातीति तदुत्तरदः । यद्वचनं यद्वाक्यम् । कैर्व्याचष्टे पदभङ्गैः । पदखण्डनयेत्यर्थः । सा श्लेषवक्रोक्तिईया । वक्रोक्तिस्तु द्विविधा, श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च । तल्लक्षणयोश्च वैलक्षण्यानैकं लक्षणमस्तीति भेदेनाभिधानमुपपन्नम् ॥ तत्रोदाहरणमाहकिं' गौरि मां प्रति रुषा ननु गौरहं किं कुप्यामि कां प्रेति मयीत्यनुमानतोऽहम् । जानाम्यतस्त्वमनुमानत एव सत्य मित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥ १५ ॥ किमिति । इत्थमेवं गिरो वाचो गिरिभुवो गौर्याः कुटिला वक्रा जयन्ति । कथम् । प्रणयकुपितां गौरी शंभुरनुनयन्नाह हे गौरि उमे, मां प्रति मामुद्दिश्य किं तव रुषा रोषेण । तत्प्रसीदेत्यर्थः । एतदुत्तरदायिनी सान्यथा पदभङ्गैराह-ननु गौरहं किम् । ननुरक्षमायाम् । किमहं गौस्त्वया कृता यद्गौरित्यामन्त्रयसे । कां च प्रति । मया कोपः कृतः यदात्थ किमिमां प्रति रुषेति । पुनः शंभुमाह-अतोऽस्मादनुमानतोऽनुमानाद्वक्रवचनलक्षणान्मयि विषये त्वं कुप्यसीत्यहं जाने । भूयो भवान्याह-त्वमनुमानत एव सत्यम् । न उमा अनुमा तस्या एव नतः । अस्मदनमनं केन तव ज्ञातमित्यर्थः ॥ इदानी काकुवक्रोक्तिलक्षणमाह विस्पष्टं क्रियमाणादक्लिष्टा खरविशेषतो भवति । अर्थान्तरप्रतीतिर्यत्रासौ काकुवक्रोक्तिः ॥ १६॥ विस्पष्टमिति । यत्र खरविशेषादर्थान्तरप्रतीतिर्भवति । कीदृशात् । विस्पष्टं स्फुटं क्रियमाणादुच्चार्यमाणात् । कीदृशी अर्थान्तरप्रतीतिः । अक्लिष्टा कल्पनारहिता सा काकुवक्रोक्तिः ॥ तत्रोदाहरणम् शल्यमपि स्खलदन्तः सोढुं शक्येत हालहलदिग्धम् । धीरैर्नपुनरकारणकुपितखलालीकदुर्वचनम् ॥ १७ ॥ शल्यमिति । इदमनपराधकुपितखलवचनान्यसहमानं कश्चित्समुद्दीपयन्नाह-आस्तामन्यत् । शल्यमपि काण्डमपि स्खलदन्तर्मध्ये मर्मघटनां कुर्वाणं सोढु क्षन्तुं शक्येत । कीदृशम् । हालहलेन विषेण दिग्धं लिप्तम् । धीरेधैर्योपेतैर्न पुनरकारणकुपित. खलालीकदुर्वचनमित्येकोऽर्थः । एतदेव वाक्यं काक्का खरविशेषेण वदन्समाश्वासयतियथा अपि शल्यं स्खलदन्तः सोढुं शक्येत धी रैर्न पुनरकारणकुपितखलालीकदुर्वचनम् । १. उदाहृतोऽयं श्लोकः सरखतीकण्ठाभरणे द्वितीयपरिच्छेदे भोजेन.

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188