Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
४ अध्यायः]
काव्यालंकारः।
उदाहरणमिदम्
साधौ विधावपर्तावपराहावास्थितं विषादमितः। .
आयासि दानवत्त्वं तद्धर्म्य परमकुर्वाणः ॥ ४ ॥ साधाविति । अत्र महासत्त्वो दरिद्रो वर्ण्यते-कश्चिन्नरो दानवतो भावो दानवत्त्वं दातृत्वं तत्पुराकृतमकुर्वाणोऽसंपादयन्विषादमितः प्राप्तः। कीदृशं दातृत्वम् । विधिदैवं तस्मिन्नास्थितमायत्तम् । दैवाधीनमित्यर्थः । दैवेऽनुकूले भवतीति भावः । कीदृशे विधौ । सहाधिभिर्वर्तत इति साधिस्तस्मिन् । नित्यमेव मनःपीडावह इत्यर्थः । तथापी सदा संनिधानादपगतोऽतुः कालविशेषो यस्य सोऽपतुस्तस्मिन् । तथापराहावविद्यमानः परः प्रतिपक्षो यस्यासावपरः स चासावहिश्च सर्पश्च पीडाकारित्वादपराहिस्तस्मिन् । अपरस्याहेर्नकुलादिहिसको भवति, अस्य तु नैव । अन्यच कीदृशं दानवत्वम् । आयास्यघटनादभीक्ष्णं खेददायि । तथा धयें खभावतो धर्मादनपेतम्, अत एव परं श्रेष्ठम् । एष एकस्य वाक्यस्यार्थः ॥ अपरस्य तु-साधावित्यादि कश्चिद्वाणासुरमाह-हे दानव दनुसुत, त्वं बाणो बाणाख्य इतोऽस्मात्प्रदेशाद्विषादं कालकूटभक्षकं शिवमायास्यागच्छसि। कीदृशं शिवम् । विधौ चन्द्रमस्यास्थितमास्था संजातास्येति तम् । कीदृशे विधौ । साधौ सुन्दरे । तथापगता ऋतिर्गमनं यस्यासावपर्तिस्तस्मिन् । सदावस्थिते। तथापगतो राहुर्विधुंतुदो यस्मादसौ तथाविधस्तस्मिन् । किमिति तत्सकाशमायासीत्याह-तस्य हवें स्थानं तद्धर्म्य यतः परमोत्कृष्टा कुर्भूमिः । निर्वाणपदमित्यर्थः । साधावित्यादाविकारोकारयोः स. प्तमीविभक्तिवशादैकरूप्यम् । आस्थितमितः प्रभृतिषु प्रत्ययवशात् । तद्धर्म्यमित्यत्र धकारहकारवर्णवशादिति । परमकुर्वाण इत्यत्रैकत्रौष्ठयोऽन्यत्र दन्त्यौष्ठयो वकारस्तत्कथमेकरूपता वणोनाम् । सत्यम् । यमकश्लेषचित्रेषु बवकारयोरोष्ठयदन्यौष्ठययोरभेदो दृश्यते । यथा-'तस्यारिजातं नृपतेरपश्यदबलं वनम् । ययौ निर्भरसंभोगैरपश्यदवलम्बनम् । तथा नकारणकारयोश्च न भेदः। यथा-वेगं हे तुरगाणां जयन्नसावेति भङ्गहेतुरगानाम्' इति शिवभद्रस्य । विसर्जनीयभावाभावयोश्च न विशेषः । यथा-'द्विषतां मूलमुच्छेत्तुं राजवंशादजायथाः । द्विषद्भ्यस्त्रस्यसि कथं वृकयूथादजा यथा ॥' अत्र ह्येकत्राजायथा इति विसर्गान्तं क्रियापदम्, अपरत्र यथाशब्दोऽव्ययम् । तथान्ययोर्मकारनकारयोश्च न भेदः। यथा-'प्रापयासुरथं वीर समीरसमरंहसम् । द्विषतां जहि निःशेषपृतनाः समरं हसन् ॥' अत्र हि समरंहसमिति मान्तम्, हसन्निति नान्तं पदम् । तथा व्यन्जनात्परस्यै. कस्य व्यजनस्य द्वयोर्वा न विशेषः । यथा-'शुक्ले शुक्लेशनाशं दिशति' इत्यादौ शुक्ले शुक्ले यमकः । तस्मिंश्चैकत्र शुक्लगुणयुक्त, अन्यत्र शुचः क्लेशस्य च नाशं दिशतीत्यर्थः । अत्र ह्येकत्र ककाराल्लकार एवैकं व्यञ्जनम्, अन्यत्र ककारो लकारश्च द्वयमिति ॥ अथ पदश्लेषः
यस्मिन्विभक्तियोगः समासयोगश्च जायते विविधः। पदभङ्गेषु विविको विज्ञेयोऽसौ पदश्लेषः ॥ ५ ॥

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188