Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 171
________________ सम्यग्ज्ञानप्रकृतिः शान्तो विगतेच्छनायको भवति । सम्यग्ज्ञानं विषये तमसो रागस्य चापगमात् ॥ १५ ॥ जन्मजरामरणादित्रासो वैरस्यवासना विषये । सुखदुःखयोरनिच्छाद्वेषाविति तत्र जायन्ते ॥ १६ ॥ सम्यगिति । जन्मति । सुगमं न वरम् । सम्यग्ज्ञानं स्थायिभावः । विभावस्तु शब्दा. दिविषयखरूपम् । अनुभावी जन्मादित्रासादयः। कैश्चिच्छान्तस्य रसत्वं नेष्टम् । तदयुतम् । भावादिकारणानामत्रापि विद्यमानत्वात् । एवं प्रेयोरसेऽपि द्रष्टव्यमिति ॥ अथ प्रेयान् नेहप्रकृतिः प्रेयान्संगतशीलार्यनायको भवति । मेहस्तु साहचर्यात्प्रकृतेरुपचारसंबन्धात् ॥ १७ ॥ निर्व्याजमनोवृत्तिः सनर्मसद्भावपेशलालापाः । अन्योन्यं प्रति सुहृदोर्व्यवहारोऽयं मतस्तत्र ॥ १८ ॥ प्रस्यन्दिप्रमदाश्रुः सुस्निग्धस्फारलोचनालोकः । आर्द्रान्तःकरणतया स्नेहपदे भवति सर्वत्र ॥ १९ ॥ सुगमं न वरम् । स्नेहः स्थायिभावः । विभावः साहचर्यादिः । अनुभावः प्रस्यन्दिप्रमदाघ्रप्रभृतिः ॥ अथ वीरादिषु रीतिनियममाह वैदर्भीपाञ्चाल्यौ प्रेयसि करुणे भयानकाद्भुतयोः । लाटीयागौडीये रौद्रे कुर्याद्यथौचित्यम् ॥ २० ॥ कैदीति । प्रेयःकरुणभयानकाद्भुतेषु चतुर्पु रसेषु वैदर्भी पाश्चली चेति रीतिद्वयं कु. र्यात् । तथा रौद्रे रसे लाटीया गौडिया च कर्तव्या । शेषरसेषु न रीतिनियमः । सर्वा अपि कथं कार्या इत्याह-यथौचित्यमिति । औचित्यं रसखरूपपरिपोषः । तदनतिकमेणेत्यर्थः । रसानामलंकाराणां च लक्षणस्य मात्रयापि न्यूनत्वे तदाभासता बोद्धव्या ॥ अध्यायमुपसंहरंस्तद्रचनाक्रममाह एते रसा रसवतो रमयन्ति पुंसः सम्यग्विभज्य रचिताश्चतुरेण चारु । यस्मादिमाननधिगम्य न सर्वरम्यं काव्यं विधातुमलमत्र तदाद्रियेत ॥ २१ ॥

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188