Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
१६४
काव्यमाला।
तदिति विरचनीयः सम्यगेष प्रयत्ना
द्भवति विरसमेवानेन हीनं हि काव्यम् ॥ ३८ ॥ अनुसरतीति । सुगमम् ॥ . इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेत
श्चतुर्दशोऽध्यायः समाप्तः ।
पञ्चदशोऽध्यायः। • शृङ्गारं व्याख्यायाधुना वीरादीनां विभागभावानुभावलक्षणं कारणत्रयं तथा नायकानायकगुणांश्च प्रत्येकं क्रमेणाह
उत्साहात्मा वीरः स त्रेधा युद्धधर्मदानेषु । विषयेषु भवति तस्मिन्नक्षोभो नायकः ख्यातः ॥ १॥ नयविनयबलपराक्रमगाम्भीर्यौदार्यशौर्यशौटीर्यैः ।
युक्तोऽनुरक्तलोको नियूंढभरो महारम्भः ॥ २ ॥ उत्साहात्मेति । नयेति । गतार्थे न वरम् । उत्साहः स्थायी भावः । धर्मदानयुद्धलक्षणं च विषयत्रयं विभागः । नायकगुणा एवानुभावः । तेजो रणे च सामर्थ्य बलम् । रिपूणां बलादाक्रमणं पराक्रमः । गाम्भीर्यमलब्धमध्यता । 'दानमभ्युपपत्तिश्च तथा च प्रियभाषणम् । स्वजनेऽथ परे वापि तदौदार्य प्रचक्षते ॥' समरैकत्वं शौर्यम् । सत्यपि त्यागकारणे योग्यकार्यस्यात्यागः शौटीर्यम् । धैर्यमित्यर्थः॥ अथ करुण:करुणः शोकप्रकृतिः शोकश्च भवेद्विपत्तितः प्राप्तेः । इष्टस्यानिष्टस्य च विधिविहतो नायकस्तत्र ॥ ३ ॥ अच्छिन्ननयनसलिलप्रलापवैवर्ण्यमोहनिर्वेदाः । क्षितिचेष्टनपरिदेवनविधिनिन्दाश्चेति करुणे स्युः ॥ ४ ॥ करुण इति । अच्छिन्नेति । सुगमं न वरम् । शोकः स्थायिभावः । इष्टानिष्टविपत्तिप्राप्ती विभागः । अच्छिन्ननयनाथुप्रभृतिरनुभावः॥ अथ बीभत्सः
भवति जुगुप्साप्रकृतिर्बीभत्सः सा तु दर्शनाच्छ्रवणात् । संकीर्तनात्तथेन्द्रियविषयाणामत्यहृद्यानाम् ॥ ५॥ हृल्लेखननिष्ठीवनमुखकूणनसर्वगात्रसंहाराः। उद्वेगः सन्त्यस्मिन्गाम्भीर्यान्नोत्तमानां तु ॥ ६ ॥

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188