Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 167
________________ १६२ काव्यमाला | सकलेति । सुगमम् । मध्याधमौ तु प्रसङ्गौ स्वयमुन्नेयौ ॥ तत्र प्रत्यक्ष दोषदर्शने परिहारो नास्ति लिङ्गगम्ये वस्तीत्याह परिहारो वसनादावन्यस्मादागमोऽन्यदिदमिति वा । परिहर्तुं कृतमस्मिन्न लक्ष्यते नायिकां रमयेत् ॥ २२ ॥ तदनु त्वत्कृतमिदमिति परिहारः पूर्वमेव वा सुरतम् । शब्दान्तरनिष्पत्तिर्गोत्रस्खलने तु केलिर्वा ॥ २३ ॥ अभियोज्यायां मयि वा कुपितेयमनेन हेतुना तेन । वति सखी ते मिथ्या किलेति तद्वचसि परिहारः ॥ २४ ॥ परिहार इति । तदन्विति । अभियोज्यायामिति । सुगमम् ॥ अथ यतः कोपान्नायकाय कुरुते (?) तदाह - ज्यायोभिः सह दोषो ज्यायाञ्जनयत्यसाध्यमतिकोपम् । तस्मान्म्रयते सद्यो मनखिनी त्यजति वा पुरुषम् ॥ २५ ॥ ज्यायोभिरिति । सुगमम् ॥ अथास्याः कोपस्य साध्यासाध्यविभागः कथं ज्ञेय इत्याहदोषस्य सहायानामालोच्य बलाबलं समेतानाम् । बुध्येत कोपमस्याः सुखसाध्यं कृच्छ्रसाध्यं वा ॥ २६ ॥ दोषस्येति । सुगमम् अथ जाते कोपे उपायाः प्रयोक्तव्याः, क्व वा के प्रयोक्तव्याः, कथं वा प्रयोक्तव्या इत्येतदाह साम प्रदानभेदौ प्रणतिरुपेक्षा प्रसङ्गविभ्रंशः । अत्रैते षडुपाया दण्डस्त्विह हन्ति शृङ्गारम् || २७॥ दासोऽस्मि पालनीयस्तवैव धीरा बहुक्षमा त्वं च । अहमेव दुर्जनोऽस्मिन्नित्यादि स्तुतिवचः साम ॥ २८॥ कालेऽलंकारादीन्दद्यादुद्दिश्य कारणं त्वन्यत् । बन्धुमहादिकमिति यत्तद्दानं साधु लुब्धालु ॥ २९ ॥ तस्या गृहीतवाक्यं परिजनमाराध्य दानसंमानैः । तेन सदोषः कोपेतां बोधयतीत्ययं भेदः ॥ ३०॥ दैन्येन पादपतनं प्रणतिरुपेक्षावधीरणं तस्याः । सहसात्युत्सवयोगो भ्रंशः कोपप्रसङ्गस्य ॥ ३१ ॥

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188