Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
१५ अध्यायः ]
काव्यालंकारः ।
भवतीति । हृदिति । सुगमं न वरम् । जुगुप्सा स्थायिभावः । विभागस्त्वहृयदर्शनादिः । अनुभावो हृल्लेखनादिः । हृल्लेखनं हृदयकम्पः ॥
अथ भयानकः —
संभवति भयप्रकृतिर्भयानको मयमतीव घोरेभ्यः । शब्दादिभ्यस्तस्य च नीचस्त्रीबालनायकता ॥ ७ ॥ दिक्प्रेक्षणमुखशोषणवैवर्ण्य वेद गद्गदत्रासाः ।
करचरणकम्पसंभ्रममोहाश्च भयानके सन्ति ॥ ८ ॥
संभवतीति । दिगिति । सुगमं न वरम् । भयं स्थायिभावः । घोरशब्दादिर्विभागः । दिक्प्रेक्षणादिरनुभावः ॥
अथाद्भुतः
स्यादेष विस्मयात्मा रसोऽद्भुतो विस्मयोऽप्यसंभाव्यात् । स्वयमनुभूतादर्थादनुभूयान्येन वा कथितात् ॥ ९॥ नयनविकासो बाष्पः पुलकः खेदोsनिमेषनयनत्वम् । संभ्रमगद्गदवाणीसाधुवचांस्युत्तमे सन्ति ॥ १० ॥
स्यादिति । नयनेति । सुगमं न वरम् । विस्मयः स्थायिभावः । विभागश्चासंभवि । अनुभावो नयनविकासादिः ॥
अथ हास्यः
हास्यो हासप्रकृतिर्हासो विकृताङ्गवेषचेष्टाभ्यः ।
१६५
भवति परस्थाभ्यः स च भूम्ना स्त्रीनीच बालगतः ॥ ११ ॥ नयनकपोलविकासी किंचिल्लक्ष्यद्विजोऽप्यसौ महताम् ।
मध्यानां विवृतास्यः सशब्दबाष्पश्च नीचानाम् ॥ १२ ॥
हास्य इति । नयनेति । सुगमं न वरम् । हास्यः स्थायिभावः विभावस्तु विकृताङ्गवेषादिः द: । अनुभावो नयनकपोलविकासादिः ॥
अथ रौद्र:
रौद्रः क्रोधप्रकृतिः क्रोधोऽरिकृतात्पराभवाद्भवति ।
तत्र सुदारुणचेष्टः सामर्षो नायकोऽत्युग्रः ॥ १३ ॥
तत्र निजांसस्फालन विषमभ्रुकुटीक्षणायुधोत्क्षेपाः । सन्ति स्वशक्तिशंसाप्रतिपक्षाक्षेपदलनानि ॥ १४ ॥
रौद्र इति । तत्रेति । सुगमं न वरम् । क्रोधः स्थायिभावः । विभावो रिपुकृतपराभवादिः । अनुभावो निजांसास्फालनादिः ॥
१६

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188