SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १५ अध्यायः ] काव्यालंकारः । भवतीति । हृदिति । सुगमं न वरम् । जुगुप्सा स्थायिभावः । विभागस्त्वहृयदर्शनादिः । अनुभावो हृल्लेखनादिः । हृल्लेखनं हृदयकम्पः ॥ अथ भयानकः — संभवति भयप्रकृतिर्भयानको मयमतीव घोरेभ्यः । शब्दादिभ्यस्तस्य च नीचस्त्रीबालनायकता ॥ ७ ॥ दिक्प्रेक्षणमुखशोषणवैवर्ण्य वेद गद्गदत्रासाः । करचरणकम्पसंभ्रममोहाश्च भयानके सन्ति ॥ ८ ॥ संभवतीति । दिगिति । सुगमं न वरम् । भयं स्थायिभावः । घोरशब्दादिर्विभागः । दिक्प्रेक्षणादिरनुभावः ॥ अथाद्भुतः स्यादेष विस्मयात्मा रसोऽद्भुतो विस्मयोऽप्यसंभाव्यात् । स्वयमनुभूतादर्थादनुभूयान्येन वा कथितात् ॥ ९॥ नयनविकासो बाष्पः पुलकः खेदोsनिमेषनयनत्वम् । संभ्रमगद्गदवाणीसाधुवचांस्युत्तमे सन्ति ॥ १० ॥ स्यादिति । नयनेति । सुगमं न वरम् । विस्मयः स्थायिभावः । विभागश्चासंभवि । अनुभावो नयनविकासादिः ॥ अथ हास्यः हास्यो हासप्रकृतिर्हासो विकृताङ्गवेषचेष्टाभ्यः । १६५ भवति परस्थाभ्यः स च भूम्ना स्त्रीनीच बालगतः ॥ ११ ॥ नयनकपोलविकासी किंचिल्लक्ष्यद्विजोऽप्यसौ महताम् । मध्यानां विवृतास्यः सशब्दबाष्पश्च नीचानाम् ॥ १२ ॥ हास्य इति । नयनेति । सुगमं न वरम् । हास्यः स्थायिभावः विभावस्तु विकृताङ्गवेषादिः द: । अनुभावो नयनकपोलविकासादिः ॥ अथ रौद्र: रौद्रः क्रोधप्रकृतिः क्रोधोऽरिकृतात्पराभवाद्भवति । तत्र सुदारुणचेष्टः सामर्षो नायकोऽत्युग्रः ॥ १३ ॥ तत्र निजांसस्फालन विषमभ्रुकुटीक्षणायुधोत्क्षेपाः । सन्ति स्वशक्तिशंसाप्रतिपक्षाक्षेपदलनानि ॥ १४ ॥ रौद्र इति । तत्रेति । सुगमं न वरम् । क्रोधः स्थायिभावः । विभावो रिपुकृतपराभवादिः । अनुभावो निजांसास्फालनादिः ॥ १६
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy