Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 176
________________ १६ अध्यायः] काव्यालंकारः। आख्यायिकाया एव लक्षणशेषमाह अथ तेन कथैव यथा रचनीयाख्यायिकापि गयेन । निजवंशं खं चास्यामभिदध्यान त्वगयेन ॥ २६॥ अथेति । एवोऽभिन्नक्रमे । ततश्चायमर्थः-अथ तेन कविना यथैव कथाख्यायिकापि तथैव गयेन रचनीया । तुरवधारणे । ततो निजवंशमात्मानं च गयेनैवास्यामभिदध्यात्। यथा हर्षचरिते ॥ अपि च कुर्यादत्रोच्छ्रासान्सर्गवदेषां मुखेष्वनाधूनाम् (!) । द्वे द्वे चार्ये श्लिष्टे सामान्यार्थे तदर्थाय ॥ २७ ॥ कुर्यादिति । सुगमं न वरम् । तदर्थाय प्रस्तुतार्थसूचनाय ॥ संशयशंसावसरे भंवतो भूतस्य या परोक्षल । अर्थस्य भाविनस्तु प्रत्यक्षस्यापि निश्चितये ॥ २४ ॥ संशपितुः प्रत्यक्ष स्वावसरेणैव पाठयेत्कंचित् ।। अन्योक्किसमासोक्तिश्लेषाणामेकमुभयं वा ॥ २९॥ तत्र च्छन्दः कुर्यादार्यापरवक्त्रपुष्पिताप्राणाम् । अन्यतम वस्तुवशादथवान्यामालिनीप्रायम् ॥ ३० ॥ संशयेति । संशयितुरिति । तत्रेति । वर्तमानस्यातीतस्य च परोक्षस्य भाविननु प्रत्यक्षस्यापि संदेहकथनावसरे सति निश्चयाय कंचित्प्राणिनमवसरेणैवान्योकिसमायोकिछेषाणां मध्यादेकमुभयं वालंकारं पाठयेत् । तत्र चार्यादिच्छन्दः कुर्यात् ॥ एवं काव्यादित्रयस्य लक्षणान्याख्याय तच्छेषमाह साभिप्रायं किंचिद्विरुखमिव वस्नुसत्त्रसोग । अन्तः कथाश्व कुर्याविषयेषु प्रबन्धेषु ॥ ३१॥ साभिप्रायमिति । सुगमं न वरम् । विरुद्ध मिव न तु विरुद्धम् । त्रिमपीवि काव्यकपास्यायिकाई कुर्यादभ्युदयान्तं राज्यभ्रंशादि नायकस्यापि । अभियावह ती मोक्षं च नितान।१२।। सुगमम् ॥

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188