Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
१०२
काव्यमाला। अथ लघूनां काव्यादीनां लक्षणमाहकुर्यात्क्षुद्रे काव्ये खण्डकथायां च नायकं सुखिनम् । आपद्गतं च भूयो द्विजसेवकसार्थवाहादिम् ॥ ३३ ॥ अत्र रसं करुणं वा कुर्यादथवा प्रवासशृङ्गारम् ।
प्रथमानुरागमथवा पुनरन्ते नायकाभ्युदयम् ॥ ३४ ॥ सुगमम् ॥ अथ किमेतल्लक्षणं सर्वेषामपि काव्यादीनां सामान्यं स्यान्नेत्साह
नैतदनुत्पाद्येषु तु तत्र ह्यभिधीयते यथावृत्तम् ।
अल्पेषु महत्सु च वा तद्विषयो नायमुपदेशः ॥ ३५॥ सुगमम् ॥ अथ काव्यकथाख्यायिकादय इत्यत्रादिग्रहणसंगृहीतं दर्शयितुमाह
अन्यद्वर्णकमात्रं प्रशस्तिकुलकादिनाटकाद्यन्यत् ।
काव्यं तद्बहुभाषं विचित्रमन्यत्र चाभिहितम् ॥ ३६ ॥ अन्यदिति । सुगमं न वरम् । तत्र यस्यामीश्वरकुलवर्णनं यशोथै क्रियते सा प्रशस्तिः। यत्र च पञ्चादीनां चतुर्दशान्तानां श्लोकानां वाक्यार्थः परिसमाप्यते तत्कुलकम् । आदिग्रहणादेकस्मिञ्छन्दसि वाक्यसमाप्तौ मुक्तकम्, द्वयोः संदानितकम् , त्रिषु विशेषकम्, चतुषु कालापकम् । तथा मुक्तकानामेव प्रघट्टकोपनिबन्धः पर्याययोगः कोषः । तथा बहूनां छन्दसामेकवाक्यत्वे तद्वाक्यानां च समूहावस्थाने परिकथा । भूयोऽप्याह-नाटकाद्यन्यदिति। अत्र भरताभिहितम् । नाटकादीत्यत्रादिशब्दान्नाटकप्रकरणे हामृगसमवकारभाणव्यायोगडिमवीथीप्रहसनादिसंग्रहः । तद्बहुभाषं च बह्वीभिर्भाषाभिर्निबध्यते । विचित्रं च । नानासंधिसंध्यङ्गाभिनयादियुक्तत्वादिति ॥ ___ महाकाव्यादिलक्षणमभिधायेदानी काव्यगुणातिशयविवक्षायां मा कश्चिदसंभवि वोचदिति तनिषेधार्थमाह
कुलशैलाम्बुनिधीनां न ब्रूयाल्लङ्घनं मनुष्येण ।
आत्मीययैव शक्त्या सप्तद्वीपावनिक्रमणम् ॥ ३७॥ कुलेति । सुगमम् ॥
ननु भरतहनूमत्प्रभृतीनां सर्वमेतच्छ्रयते, ततश्च यथा तेषां तथान्यस्यापि भविष्यतीति को दोष इत्याह
येऽपि तु लचितवन्तो भरतप्राया कुलाचलाम्बुनिधीन् । तेषां सुरादिमुख्यैः सङ्गादासन्विमानानि ॥ ३८ ॥ .

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188