Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 174
________________ १६ अध्यायः] काव्यालंकारः। १६९ अथ नायकप्रयाणे नागरिकाक्षोभजनपदाद्रिनदीः । अटवीकाननसरसीमरुजलधिद्वीपभुवनानि ॥ १३ ॥ स्कन्धावारनिवेशं क्रीडां यूनां यथायथं तेषु । रव्यस्तमयं संध्यां संतमसमथोदयं शशिनः ॥ १४ ॥ रजनी च तत्र यूनां समाजसंगीतपानशृङ्गारान् । इति वर्णयेत्प्रसङ्गात्कथां च भूयो निबनीयात् ॥ १५॥ . प्रतिनायकमपि तद्वत्तदभिमुखममृष्यमाणमायान्तम् । . अभिदध्यात्कार्यवशान्नगरीरोधस्थितं वापि ॥ १६ ॥ योद्धव्यं प्रातरिति प्रबन्धमधुपीति निशि कलत्रेभ्यः ।... खवधं विशङ्कमानान्संदेशान्दापयेत्सुभटान् ॥ १७ ॥ संनह्य कृतव्यूहं सविस्मयं युध्यमानयोरुभयोः । कृच्छ्रेण साधु कुर्यादभ्युदयं नायकस्यान्ते ॥ १८ ॥ गतार्थे न वरम् । कुल्यादिष्विति कुल्यो गोत्रजः । आदिशब्दात्कृत्रिमादिः । तथा संमन्त्र्य निश्चित्य चेत्यत्रान्तर्भूतः कारितार्थो द्रष्टव्यः । अन्यथा भिन्नकर्तृकत्वात्क्त्वा न स्यात् । नायकमुखेन कविरेव मन्त्रयते निश्चिनोति चेति केचित् । तथा नद्यः सरितः । अटवी निर्जनो देशः । काननमुद्यानवनम् । सरस्यो महान्ति सरांसि । मरुर्निर्जलो देशः। द्वीपं जलमध्यस्थभूप्रदेशः । भुवनानि लोकान्तराणि । तथा यूनां दंपतीनां क्रीडा । सा च वनेषु क्रीडा, नदीषु जलकेलिः, अटव्यां विहार इत्यादिका। तथा यूनां समाजः संगमः । संगीतं गेयम् । पानकं सरकम् । शृङ्गारः सुरतादिः । तथा कलत्रेभ्यः सुभटान्संदेशान्प्रदापयेत् । कथं दापयेत्। प्रबन्धेन मधुपीतिर्मधुपानं यत्र कर्मणि । मधुपानमपि कुत इत्याह-योद्धव्यं प्रातरिति । तथा नायकस्येति नायकस्यैव विजयं कुर्यान विपक्षस्येति सूचनार्थम् ॥ अथ किमयं प्रबन्धोऽनवच्छेद एव कर्तव्यो नेत्याह सर्गाभिधानि चास्मिन्नवान्तरप्रकरणानि कुर्वीत । .. संधीनपि संश्लिष्टांस्तेषामन्योन्यसंबन्धात् ॥ १९ ॥ सर्गेति । सुगमं न वरम् । सर्गाभिधानि सर्गनामकानि । यतः 'सर्गबन्धो महाकाव्यम्' इत्युक्तम् । तथा संधीन्मुखप्रतिमुखगर्भविमर्श निर्वहणाख्यान्भरतोकान्सुश्लिष्टान्सुरचनान्कुर्वीत । कथं तथा ते स्युरित्याह-अन्योन्यसंबन्धादिति ॥...

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188