Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 173
________________ १६८ कामाला | परमिति । तेषु काव्यादिमध्ये तेऽनुत्पाद्याः, येषां पञ्जरं कथाशरीरमखिलं सर्वमि - तिहासादिप्रसिद्धं रामायणादिकथाप्रसिद्धं कविः स्ववाचा परिपूरयेत् । वदेदित्यर्थः । यथार्जुनचरिते । अथवा तदेकदेशं वा, इतिहासविकदेशं वा स्ववाचा यत्र पूरयेत्तदप्यनुत्पाद्यम् । यथा किरातार्जुनीयं काव्यम् ॥ अथ महान्तः तत्र महान्तो येषु च विततेष्वभिधीयते चतुर्वर्गः । सर्वे रसाः क्रियन्ते काव्यस्थानानि सर्वाणि ॥ ५ ॥ तत्रेति । सुगमं न वरम् । काव्यस्थानानि पुष्पोच्चयजलक्रीडादीनि भण्यन्ते ॥ अथ लघवः ते लघवो विज्ञेया येष्वन्यतमो भवेच्चतुर्वर्गात् । असमग्रानेकरसा ये च समग्रैकरसयुक्ताः || ६ || तइति । सुगमं न वरम् । ते मेघदूतादयो लघवः महान्तस्तु शिशुपालवधादयः ॥ अथानुत्पाद्येषु पुराणादिक्रमेणैवेतिवृत्तनिबन्धः केवलं तत्र कविः स्ववाचा चतुवर्गरसकाव्यस्थानवर्णनं नमस्कारपूर्वकं करोतीति न तद्विषयनिबन्धोपदेशो जायते । ये पुनरुत्पाद्यास्तत्र कथं निबन्ध इत्यनुपदिष्टं न ज्ञायत इति तन्निबन्धक्रमोपदेशमाह - तत्रोत्पाद्ये पूर्व सन्नगरी वर्णनं महाकाव्ये । कुर्वीत तदनु तस्यां नायकवंशप्रशंसां च ॥ ७ ॥ तत्र त्रिवर्गसक्तं समिद्धशक्तित्रयं च सर्वगुणम् । रक्तसमस्तप्रकृतिं विजिगीषु नायकं न्यस्येत् ॥ ८ ॥ विधिवत्परिपालयतः सकलं राज्यं च राजवृत्तं च । तस्य कदाचिदुपेतं शरदादिं वर्णयेत्समयम् ॥ ९ ॥ स्वार्थं मित्रार्थं वा धर्मादिं साधयिष्यतस्तस्य । कुल्यादिष्वन्यतमं प्रतिपक्षं वर्णयेद्गुणिनम् ॥ १० ॥ खचरात्तद्दूताद्वा कुतोऽपि वा शृण्वतोऽरिकार्याणि । कुर्वीत सदसि राज्ञां क्षोभं क्रोधेद्धचित्तगिराम् ॥ ११ ॥ संमन्त्र्य समं सचिवैर्निश्चित्य च दण्डसाध्यतां शत्रोः । तं दापयेत्प्रयाणं दूतं वा प्रेषयेन्मुखरम् ॥ १२ ॥ १. अर्जुनचरितमानन्दवर्धनाचार्यकृतं प्राकृतकाव्यम्.

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188