Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
१४ अध्यायः]
काव्यालंकारः।
सर्वत इति । यत्र शास्त्रे भणितं परदारा न गन्तव्यास्तत्रैवोक्तं सर्वत एवात्मानं गोपायेदित्यस्माद्वचनान्नायकोऽप्यात्मरक्षार्थमत्र परदारेषु प्रवर्तत इति ॥ प्रथमानुराग उक्तः । अथ मानमाह
मानः स नायके यं विकारमायाति नायिका सेा ।
उद्दिश्य नायिकान्तरसंबन्धसमुद्भवं दोषम् ॥ १५॥ मान इति सुगमम् ॥ दोषस्यैव सारेतरविभागानाह
गमनं ज्यायान्दोषः प्रतियोषिति मध्यमस्तथालापः ।
आलोकनं कनीयान्मध्यो ज्यायान्वयं दृष्टः ॥ १६ ॥ गमनमिति । सुगमम् ॥ दोषस्यैव लिङ्गान्याह
वसनादि नायकस्थं तदीयमाईक्षतं च तस्याङ्गम् ।
दोषस्य तथा गमकं गोत्रस्खलनं सखीवचनम् ॥ १७ ॥ वसनादीति । सुगमम् ॥ अथासौ दोषो ज्ञातस्तस्याः किं कुरुत इत्याह
देशं कालं पात्रं प्रसङ्गमवगमकमेत्य सविशिष्टम् ।
जनयति कोपमसाध्यं सुखसाध्यं दुःखसाध्यं वा ॥ १८ ॥ देशमिति । सुगमं न वरम् । यदि ज्यायांसो देशकालपात्रप्रसङ्गा भवन्त्यसाध्यस्तदा कोपः स्यात् । अथ मध्यास्तदा कृच्छ्रसाध्यः। अथ कनीयांसस्तदा सुखसाध्य इति ॥ अथ क एते देशादयो ज्यायांस इत्याह
ज्वलदुज्वलप्रदीपं कुसुमोत्करधूपसुरभि वासगृहम् । सौधतलं च सचन्द्रिकमुद्यानं सुरभिकुसुमभरम् ॥ १९ ॥ इति देशा ज्यायांसो मधुरजनी स्मरमहोदयः कालः ।
पात्रं तु नायकौ तौ ज्यायो मध्याधमावुक्तौ ॥ २० ॥ (युग्मम्) ज्वलदिति । इतीति । सुगमं न वरम् । ताविति पूर्वोक्तनायकौ । तत्रानुकूलदक्षिणा दिश्चतुर्धा नायकः । आत्मान्यसर्वसक्ताश्च नायिकाः । तत्रानुकूलेन दक्षिणेन च नायकेन ज्यायस्या नायिकाया दोषः कृतोऽसाध्यः । शठेन धृष्टेन च ज्यायस्याः कृच्छ्रसाध्यः । शठेन च ज्यायस्याः सुखसाध्य इत्यादि चिन्त्यम् ॥ प्रसङ्गं ज्यायांसमाह
सकलसखीपरिवृतता रत्यभिमुखता च तत्प्रशंसा च । जायेत नायिकायां यत्र ज्यायान्प्रसङ्गोऽसौ ॥ २१ ॥ .

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188