Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
काव्यालंकारः ।
तदिदमिति समस्तं वीक्ष्य काव्येषु कुर्या - कविरविरलकीर्तिप्राप्तये तद्वदेव ॥ १७ ॥
१४ अध्यायः ]
सुकविभिरिति । सुगमम् ॥
इति श्रीरुद्रकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतत्रयोदशोऽध्यायः समाप्तः ।
चतुर्दशोऽध्यायः ।
अथ संभोगं व्याख्याय विप्रलम्भशृङ्गारं व्याचिख्यासुराहअथ विप्रलम्भनामा शृङ्गारोऽयं चतुर्विधो भवति । प्रथमानुरागमानप्रवासकरुणात्मकत्वेन ॥ १ ॥
अथेति । अथशब्द आनन्तर्ये । संभोगानन्तरम् । विप्रलम्भोऽयं शृङ्गारश्चतुर्विधो भवति । कथं चतुर्विध इत्याह- प्रथमानुरागादय आत्मा स्वरूपं यस्य तद्भावस्तत्त्वं तेन हेतुना । प्रकारनिर्देशादेव चातुर्विध्ये लब्धे चतुर्विधग्रहणं चतुर्विधस्याप्यस्य शृङ्गारत्वनियमार्थम् । चतुर्विधोऽपि शृङ्गार एवायम् । केचिद्धि करुणरस एव विप्रलम्भभेदं करुणमन्तर्भावयन्ति । तदसत् । वैलक्षण्यात् । शुद्धे हि करुणे शृङ्गारस्पर्श एव न विद्यते । करुणविप्रलम्भस्तु शृङ्गार एव । यथा कालिदासस्य --- ' प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः । रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥' अथैषामेव यथाक्रमं लक्षणमाह
आलोकनादिमात्रप्ररूढगुरुरागयोरसंप्राप्तौ ।
नायकयोर्या चेष्टा स प्रथमो विप्रलम्भ इति ॥ २ ॥ आलोकनेति । सुगमम् ॥ ता एव काचिचेष्टा आह
हिमसलिलचन्द्रचन्दनमृणालकदलीदलादि तत्रैतौ । दुर्वारस्मरतापौ सेवेते निन्दतः क्षिपतः ॥ ३ ॥
हिमेत सुगमम् ॥
अथास्य सूचकानवस्थाभेदानाह
१५९
आदावभिलाषः स्याच्चिन्ता तदनन्तरं ततः स्मरणम् । तदनु च गुणसंकीर्तनमुद्वेगोऽथ प्रलापश्च ॥ ४ ॥ उन्मादस्तदनु ततो व्याधिर्जडता ततस्ततो मरणम् ।
इत्थमसंयुक्तानां रक्तानां दश दशा ज्ञेयाः ॥ ५ ॥ ( युग्मम् )
आदाविति । उन्माद इति । सुगमम् । एताश्च दशाः कादम्बरीकथायां प्रकटाः ।

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188