Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 163
________________ १५८ कुर्वन्तीति । सुगमम् ॥ नवोढानां खरूपमाह - काव्यमाला । दृष्ट्वा प्रियमायान्तं तन्मनसस्तेन संवदन्त्यो वा । ममन्थजनितस्तम्भाः प्रतिहतचेष्टाश्च जायन्ते ॥ ९ ॥ किमपि प्रियेण पृष्टास्तस्याथ ददत्य संस्तुतस्येव । साध्वससादितकण्ट्यः स्खलितपदैरुत्तरं वाक्यैः ॥ १० ॥ यत्किमपि रहस्यतमं कर्णे कथयेत्प्रियः सखीमध्ये | शृण्वन्ति स्फारदृशस्तदुदितघनकण्टकखेदाः ॥ ११ ॥ मदनव्याकुलमनसः सकलं तस्यार्थमनवगत्यैव । हुंकारं तदपि मुहुः कुर्वन्त्यवधारयन्त्य इव ॥ १२ ॥ दृष्ट्वेति । किमिति । यदिति । मदनेति । सुगमम् ॥ नवपरिणीता वध्वो यत्नादपनीय साध्वसं साम्ना । नीता अपि विस्रम्भं रहः सुनिर्बन्धिभी रमणैः ॥ १३ ॥ प्रेर्य सखीभिर्नीयन्ते वासवेश्म दयितस्य । तत्संगमाभिलाषे भूयसि लज्जाहतप्रसरे ॥ १४ ॥ ( युग्मम् ) [नवेति । प्रेर्येति सुगमम् ॥] ननु किमिति सखीभिः प्रार्थनया नीयन्ते नायकः कथं हठादेव न प्रवर्तयतीत्याह - सुकुमाराः पुरुषाणामाराध्या योषितः सदा तल्पे । तदनिच्छया प्रवृत्तः शृङ्गारं नाशयेन्मूर्खः ॥ १५ ॥ सुकुमारा इति ॥ तस्मात्कि कर्तव्यमित्याह - वाग्मी सामप्रवणश्चाडुभिराराधयेन्नारीम् । तत्कामिनां महीयो यस्माच्छृङ्गारसर्वस्वम् ॥ १६ ॥ वाग्मीति । सुगमम् ॥ अध्यायमुपसंहरन्कवेरुपदेशमाह - सुकविभिरभियुक्तैः सम्यगालोच्य तत्त्वं त्रिजगति जनताया यत्स्वरूपं निबद्धम् ।

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188