Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji
View full book text
________________
१६०
काव्यमाला। मरणं तु केचिन्नेच्छन्ति दशाम् । मृतस्य हि कीदृशः शृङ्गारः । यैरुक्तं ते तु मन्यन्ते । नवमीं दशां प्राप्तस्य निरुद्यमस्य मरणमेव दशमी दशा स्यात् ततस्तामप्राप्तेन नायकेन तनिषेधार्थ यतितव्यमिति दर्शनार्थ दशमी दशोक्ता ॥ अथ कस्तत्र प्रयत्न इति प्रयत्नक्रममाह
अथ नायकोऽनुरक्तस्तस्यामर्जयति परिजनं तस्याः । उद्दिश्य हेतुमन्यं साम्ना दानेन मानेन ॥ ६ ॥ तस्य पुरतोऽथ कुर्वन्गृहीतवाक्यस्य नायिकाविषयाम् । चिरमनुरागेण कथां खयमनुरागं प्रकाशयति ॥ ७ ॥ तदभावे प्रव्रजिता मालाकारादियोषितो वापि । उभयप्रत्ययितगिरः कर्मणि सम्यङ्गियुङ्क्ते च ॥ ८ ॥ तद्वारेण निवेदितनिजभावो विदितनायिकाचित्तः । त्वरयति तामुपचारैः खावस्थासूचकैलेखैः ।। ९॥ सिद्धां च तां विविक्ते दृष्ट्वाथ कलाभिरिन्द्रजालैर्वा ।
योगैरसकृत्क्रमशो विस्मापयति प्रसङ्गेषु ॥ १० ॥ गतार्थम् ॥ यदा तु सा कन्या नानेन क्रमेण प्राप्यते तदा किमित्याह
मन्येत यदा नेयं कथमपि लभ्येत नायिका नाथात् ।
क्षीणसमस्तोपायः कन्यां स तदेति साधयति ॥ ११ ॥ मन्येतेति । सुगमं न वरम् । नाथाजनकादिकात् ॥
ननु कन्यायाः खीकारक्रमोपदेशो न दुष्टः परदाराणां तु विरुद्ध एव महापापत्वादित्यत आह
नहि कविना परदारा एष्टव्या नापि चोपदेष्टव्याः। कर्तव्यतयान्येषां न च तदुपायोऽभिधातव्यः ॥ १२ ॥ किं तु तदीयं वृत्तं काव्याङ्गतया स केवलं वक्ति ।
आराधयितुं विदुषस्तेन न दोषः कवेरत्र ॥ १३ ॥ (युग्मम्) नेति । किमिति । सुगमम् ॥ ननु पारदारिकवृत्ताख्यानमपि न युक्तमित्याह
सर्वत एवात्मानं गोपायेदिति सुदारुणावस्थः । आत्मानं रक्षिण्यन्प्रवर्तते नायकोऽप्यत्र ॥ १४ ॥

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188