Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 113
________________ १०८ काव्यमाला । ललना इति । एतद्वाक्यरूपकं सावयवं समस्तविषयं सहजावयवं च । आहार्यावयवं तु यथा - 'गजो नगः कुथा मेघाः शृङ्खलाः पन्नगा अपि । यन्ता सिंहोऽभिशोभन्ते भ्रमरा हरिणास्तथा ॥ उभयावयवं यथा - 'यस्या बीजमहंकृतिर्गुरुतरं मूलं ममेति प्रहो नित्यं तु स्मृतिरङ्कुरः सुतसुहृज्ज्ञात्यादयः पल्लवाः । स्कन्धो दारपरिग्रहः परिभवः पुष्पं फलं दुर्गतिः सा मे त्वत्स्तुतिसेवया परशुना तृष्णालता लूयताम् ॥' इदानीं समासरूपकं सावयवं समस्तविषयं सहजावयवमुदाहर्तुमुचितम् ग्रन्थकृता तु नोदाहृतम् । तत्थं यथा - 'वचनमधु नयनमधुकरमधरदलं दशनकेसरं तस्याः । मुखकमलमनुस्मरतः स्मरहतमनसः कुतो निद्रा' ॥ समासरूपकाहार्योदाहरणमाह विकसितताराकुमुदे गगनसरस्यमलचन्द्रिकासलिले । विलसति शशिकलहंसः प्रावृड्डिपदपगमे सद्यः ॥ ४४ ॥ विकसितेति । अत्र गगनमुपमेयं सर उपमानम् । तयोश्च समासः । ताराज्योत्स्नाशशिनो गगनस्याहार्यावयवाः । उपमानस्य तु ते यादृशास्तादृशा भवन्तु । नात्र तद्विवक्षा । प्रावृड्डिपदिति रूपकमपि नोदाहरणत्वेन योज्यम् । अवयवत्वाभावात् ॥ अथ समासरूपको भयोदाहरणमाह अलिकुलकुन्तलभाराः सरसिजवदनाश्च चक्रवाककुचाः । राजन्ति हंसवसनाः संप्रति वाणीविलासिन्यः ॥ ४५ ॥ अलीति । अत्र वाप्य उपमेया विलासिन्य उपमानभूताः । तयोः समासोऽत्र । वाप्या अलिकुलचक्रवाकहंसाः । कृत्रिमा अवयवाः । सरसिजानि तु सहजा विवक्षिताः । विलासिन्यश्च यथातथा भवन्तु । न तद्विवक्षा ॥ अथ निरवयवमाह - मुक्त्वावयवविवक्षां विधीयते यत्तु तत्तु निरवयवम् । भवति चतुर्धा शुद्धं माला रशना परम्परितम् ॥ ४६ ॥ मुक्त्वेति । यत्त्ववयवविवक्षां त्यक्त्वा विधीयते तन्निरवयवं रूपकम् । तच्चतुर्धा । कथमित्याह - शुद्धमित्यादि ॥ अथ तलक्षणम् - शुद्धमिदं सा माला रशनाया वैपरीत्यमन्यदिदम् । यस्मिन्नुपमानाभ्यां समस्यमुपमेयमन्यार्थे ॥ ४७ ॥ शुद्धमिति । इदमिति 'मुक्त्वावयवविवक्षाम्' इति पूर्वलक्षणकं सा मालेति । यत्रैक वस्त्वनेकसामान्यम् | ‘उपमीयेतानेकै रुपमानैरेकसामान्यैः' इत्येतदुपमालक्षणं यत्र रूपके तदित्यर्थः । रशनाया वैपरीत्यमिति । यो यः पूर्वोऽर्थः स स उत्तरेषामुपमानमित्युप

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188