Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 155
________________ १५० काव्यमाला। धर्मादिशास्त्रेभ्यस्तेषामपि किं न भवतीत्याह-नीरसेभ्यः शास्त्रेभ्यो हिर्यस्मात्ते सरसास्त्रस्यन्ति बिभ्यति ॥ ततः किमित्याह तस्मात्तत्कर्तव्यं यत्नेन महीयसा रसैर्युक्तम् । उद्वेजनमेतेषां शास्त्रवदेवान्यथा हि स्यात् ॥ २ ॥ तस्मादिति । गतार्थम् । नन्वेवं सति सरसार्थमेव काव्यं स्यान्न तु नीरसार्थमिति नास्य सर्वजनीनत्वं स्यात् । नैष दोषः । सरसानां प्रवृत्त्युपाय एषोऽस्माभिरुक्तः, न तु नीरसप्रवृत्तिनिषेधः कृत इति । तेऽपि प्रवर्तन्त एव । अथालंकारमध्य एव रसा अपि किं नोक्ताः । उच्यते-काव्यस्य हि शब्दार्थों शरीरम् । तस्य च वक्रोक्तिवास्तवादयः कटककुण्डलादय इव कृत्रिमा अलंकाराः । रसास्तु सौन्दर्यादय इव सहजा गुणाः इति भिन्नस्तत्प्रकरणारम्भः ॥ अथ क एते रसास्तानेवोद्दिशति शृङ्गारवीरकरुणा बीभत्सभयानकाद्भुता हास्यः । रौद्रः शान्तः प्रेयानिति मन्तव्या रसाः सर्वे ॥ ३ ॥ शृङ्गारेति । गतार्थ न वरम् । शृङ्गारस्य प्राधान्यख्यापनार्थः प्रागुपन्यासः । इतिशब्द एवंप्रकारार्थः । एवंप्रकारा अन्येऽपि भावा रतिनिर्वेदस्तम्भादयः सर्वेऽपि रसा बोद्धव्याः । तत्र रत्यादयः स्थायिनः । निर्वेदादयो व्यभिचारिणः । स्तम्भादयः सा. त्त्विकाः । तद्यथा-'रतिस्सश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायिभावा रसाश्रयाः ॥ निर्वेदोऽथ तथा ग्लानिः शङ्कासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिधृतिः ॥ ब्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्थस्तथोग्रता। मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंश दिमे भावाः समाख्यातास्तु नामतः । स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमथुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥' तत्र शृङ्गारादिषु रत्यादयो यथासंख्यं भवन्ति । निर्वेदभयस्तम्भादयस्तु सर्वेष्विति ॥ ननु कथं तर्हि निर्वेदादयो रसतां यान्तीत्याह रसनाद्रसत्वमेषां मधुरादीनामिवोक्तमाचार्यैः ।। निर्वेदादिष्वपि तन्निकाममस्तीति तेऽपि रसाः ॥ ४ ॥ रसनादिति । आचार्यैर्भरतादिभिरेषां स्थायिभावानां रसनादावादनाद्धेतो रसत्वमुक्तम् । केषामिव । मधुराम्लादीनामिव । मधुरादयो ह्याखाद्यमानाः सन्तो रसतां यान्तीति । उक्तं च-'अनेकद्रव्यसंयुक्तैर्व्यञ्जनैर्बहुभिश्चितम् । आखदयन्ति भुञ्जाना भक्तं भक्तभुजो यथा ॥ भावाभिनयसंबद्धान्स्थायिभावांस्तथा रसान् । आस्वादयन्ति मनसा

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188