Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 153
________________ १४८ उत्पाद्यामाह मुक्ताफलजालचितं यदीन्दुबिम्बं भवेत्ततस्तेन । विपरीतरते सुतनोरुपमीयेताननं तस्याः ॥ ३१ ॥ मुक्ताफलेति । अत्रोपमानस्येन्दुबिम्बस्य मुक्ताफलजालचितमिति विशेषणं कृतम् न तु मुखस्योपमेयस्य श्रमवारिकणचितत्वादि ॥ अथासंभवः - काव्यमाला । उपमानं यत्र स्यादसंभवत्तद्विशेषणं नियमात् । संभूतमयद्यर्थे विज्ञेयोऽसंभवः स इति ॥ ३२ ॥ उपमानमिति । स इत्यनेन प्रकारेणासंभवो नाम दोषः । यत्रोपमानमसंभवत्तद्विशेषणमसंभाव्यविवक्षितधर्मकमपि नियमान्निश्चयेन संभूतं तद्विशेषणयुक्तं स्यात् । ननु तर्हि 'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्' इत्याद्यपि दुष्टं स्यादित्याह—अयद्यर्थम् । यद्यर्थविकलं यदि क्रियते । सयद्यर्थे तु न दोषः ॥ उदाहरणमाह सुतनुरियं विमलाम्बरलक्ष्योरुमृणालमूललालित्या । अजलप्रकृतिरदूरस्थितमित्रा गगननलिनीव ॥ ३३ ॥ सुतनुरिति । अत्र विशेषणत्रयमपि तन्वीगगननलिन्योः समानम् । परं यदि गगने नलिनी संभवेत्तदा तन्वीसदृशी भवेत् । अतो यद्यर्थं विना दुष्टता ॥ अथाप्रसिद्धि: ―― उपमानतया लोके वाच्यस्य न तादृशं प्रसिद्धं यत् । क्रियते यत्र तदुत्कटसामान्यतया प्रसिद्धिः सा ॥ ३४ ॥ उपमानतयेति । यत्किमपि वस्तु लोके वाच्यस्योपमेयार्थस्योपमानतया न प्रसिद्धमथ च तथा क्रियते साप्रसिद्धिर्दोषः । कदाचिद्वाच्येन सह विसदृशं स्यादथवा तादृशं तुल्यमपि यदि न प्रसिद्धं कथं क्रियत इत्याह--- उत्कटसामान्यतया । अतिसादृश्यादित्यर्थः ॥ उदाहरणमाह - पद्मासनसंनिहितो भाति ब्रह्मेव चक्रवाकोऽयम् । श्वपचश्यामं वन्दे हरिमिन्दुसितो बकोऽयमिति ॥ ३५ ॥ पद्मेति । इह ब्रह्मकेशवचन्द्राणां क्रमेण पद्मासनत्वेन श्यामत्वेन सितत्वेन च चक्रवाकश्वपचबकाः समाना अपि न तदुपमानत्वेन प्रसिद्धाः । यत्र तु प्रसिद्धिस्तत्र भवत्येव । यथा—'नमामि शंकरं काशसंकाशं शशिशेखरम् । नमो नुताय गीर्वाणैरलिनीलाय विष्णवे ॥' इत्यादि । ननु कथम् 'भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि । कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥' इत्यादिष्वैौपम्यम् ।

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188