________________
१४८
उत्पाद्यामाह
मुक्ताफलजालचितं यदीन्दुबिम्बं भवेत्ततस्तेन । विपरीतरते सुतनोरुपमीयेताननं तस्याः ॥ ३१ ॥
मुक्ताफलेति । अत्रोपमानस्येन्दुबिम्बस्य मुक्ताफलजालचितमिति विशेषणं कृतम् न तु मुखस्योपमेयस्य श्रमवारिकणचितत्वादि ॥
अथासंभवः
-
काव्यमाला ।
उपमानं यत्र स्यादसंभवत्तद्विशेषणं नियमात् ।
संभूतमयद्यर्थे विज्ञेयोऽसंभवः स इति ॥ ३२ ॥
उपमानमिति । स इत्यनेन प्रकारेणासंभवो नाम दोषः । यत्रोपमानमसंभवत्तद्विशेषणमसंभाव्यविवक्षितधर्मकमपि नियमान्निश्चयेन संभूतं तद्विशेषणयुक्तं स्यात् । ननु तर्हि 'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम्' इत्याद्यपि दुष्टं स्यादित्याह—अयद्यर्थम् । यद्यर्थविकलं यदि क्रियते । सयद्यर्थे तु न दोषः ॥
उदाहरणमाह
सुतनुरियं विमलाम्बरलक्ष्योरुमृणालमूललालित्या । अजलप्रकृतिरदूरस्थितमित्रा गगननलिनीव ॥ ३३ ॥
सुतनुरिति । अत्र विशेषणत्रयमपि तन्वीगगननलिन्योः समानम् । परं यदि गगने नलिनी संभवेत्तदा तन्वीसदृशी भवेत् । अतो यद्यर्थं विना दुष्टता ॥
अथाप्रसिद्धि:
――
उपमानतया लोके वाच्यस्य न तादृशं प्रसिद्धं यत् । क्रियते यत्र तदुत्कटसामान्यतया प्रसिद्धिः सा ॥ ३४ ॥
उपमानतयेति । यत्किमपि वस्तु लोके वाच्यस्योपमेयार्थस्योपमानतया न प्रसिद्धमथ च तथा क्रियते साप्रसिद्धिर्दोषः । कदाचिद्वाच्येन सह विसदृशं स्यादथवा तादृशं तुल्यमपि यदि न प्रसिद्धं कथं क्रियत इत्याह--- उत्कटसामान्यतया । अतिसादृश्यादित्यर्थः ॥ उदाहरणमाह
-
पद्मासनसंनिहितो भाति ब्रह्मेव चक्रवाकोऽयम् ।
श्वपचश्यामं वन्दे हरिमिन्दुसितो बकोऽयमिति ॥ ३५ ॥
पद्मेति । इह ब्रह्मकेशवचन्द्राणां क्रमेण पद्मासनत्वेन श्यामत्वेन सितत्वेन च चक्रवाकश्वपचबकाः समाना अपि न तदुपमानत्वेन प्रसिद्धाः । यत्र तु प्रसिद्धिस्तत्र भवत्येव । यथा—'नमामि शंकरं काशसंकाशं शशिशेखरम् । नमो नुताय गीर्वाणैरलिनीलाय विष्णवे ॥' इत्यादि । ननु कथम् 'भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि । कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥' इत्यादिष्वैौपम्यम् ।