________________
११ अध्यायः] काव्यालंकारः। रिति । वैषम्ये पुनरुभे अप्यसमाने ते । तर्हि लिङ्गादिभेद एव खरूपेण किं नोक्त इत्याह-भिद्येत किंचित्तु । तुरवधारणे । तत्सामान्याभिधायिपदं लिङ्गादिभेदेऽपि किंचिदेव भिद्यते, न सर्वम् । ततो यत्रैव तस्य भेदस्तत्रैव दोषः, न सर्वत्र ॥ . एतदुदाहरणानि यथाक्रममाह
चन्द्रकलेव सुगौरो वात इव जगाम यः समुत्सृज्य ।
दहतु शिखीव स कामं जीवयसि सुधेव मामालि ॥ २७ ॥ __चन्द्रकलेति । काचिद्विरहिणी सखीं ब्रूते-आलि सखि, यथा चन्द्रकला सुगौरी तथायं सुगौरः । इति लिङ्गभेदे । यथा वातो गच्छति तथा मां समुत्सृज्य यो जगाम । इति कालभेदे । भूतकालो वर्तमानेन भन्नः सन्नुपमाने योज्यते । दहतु शिवीव-स कामम् । इति कारकभेदे । विधिविशिष्टो हि कर्ता कर्तृमात्रेण शिखिनोपमितोऽत्र । जीवयसि सुधैव मामालि । इति विभक्तिभेदे । मध्यमपुरुषो हि प्रथमपुरुषेण विपरिण-. म्योपमाने योज्यते ॥
कुवलयदलमिव दीर्घ तव नयने इत्ययं तु सुव्यक्तः ।
युक्त्या तावद्दोषो विद्वद्भिरपि प्रयुक्तश्च ॥ २८ ॥ कुवलयेति । कुवलयदलमिव दीर्घ तव नयने । इति वचनभेदे । दीर्घ इति द्विवचनान्तं ह्येकवचनान्तं कृत्वा योज्यते । नन्वेवं लिङ्गादिभेदे दोषीकृते महाकविलक्ष्यम् 'तां हंसमालाः शरदीव गङ्गाम्' इत्यादिकं कालादिभेदस्य विद्यमानत्वात्प्रायशः सर्वमेव दूष्यत इत्याह-इत्ययं त्वित्यादि । तुरवधारणे । युक्त्या तावदयं सुव्यक्त एव दोषः । ततोऽस्माभिरुक्तः । उक्तं च पूर्वमेव 'काव्यालंकारोऽयं ग्रन्थः क्रियते यथायुक्ति' (१ । २) इति । विद्वद्भिरपि प्रयुक्तश्चेत्यनेन दोषस्याप्यपरिहार्यतामाह ॥ वैषम्यमाह
अकृतविशेषणमेकं यत्स्यादुभयोस्तदन्यवैषम्यम् ।
संभवति कल्पितायामुत्पाद्यायां च नान्यत्र ॥ २९ ॥ अकृतेति । उभयोरुपमानोपमेययोर्मध्यादेकमुपमानमुपमेयं वा निर्विशेषणं भवेत्तदस्याकृतविशेषणस्य कृतविशेषणेन सह वैषम्यम् । तच्च कल्पितायामुत्पाद्यायां चोपमायां संभवति ॥
विपरीतरते सुतनोरायस्ताया विभाति मुखमस्याः ।
श्रमवारिबिन्दुजालकलाञ्छितमिव कमलमुत्फुल्लम् ॥ ३० ॥ विपरीतरत इति । इवशब्दो भिन्नक्रमे । कलस्योपमानस्य न किंचिदवश्यायजलकणनिकुरम्बाञ्चितत्वादिकं कृतम् । कल्पितोपमेयम् ॥