SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४६ काव्यमाला | 1 संभवति । यत्रोपमेयाद्धीनमुत्कृष्टं वोपमानं क्रियतेऽसौ विपर्ययः । तत्र हीनं यथा'स्फुरन्ति निखिला नीले तारका गगने निशि । भास्कराभीशुसंस्पृष्टाः कृमयः कर्दमे यथा ॥' उत्कृष्टं यथा—' अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान्ब्रह्मा विनिर्मित्सुरिव प्रजाः ॥' यत्रोपमानोपमेययोः साम्यं नास्ति तदसादृश्यम् । यथा“वनेऽथ तस्मिन्वनिताविहारिणः प्रभिन्नदानाईकटा मतङ्गजाः । विचित्रबर्हाभरणाश्च बर्हिणो बभुर्दिवीवामलविग्रहा ग्रहाः ॥' अत्र न किंचिद्दन्तिनां मयूराणां च ग्रहैः सारूयमस्तीति । तदेतन्निरस्तम् । यतश्चत्वार एवामी संग्राहका भेदाः । न त्वन्ये । तथाहि सामान्यशब्दभेदं विना लिङ्गवचनभेदमात्रं न दुष्टम् । इह हि का दुष्टता । यथा - 'अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः । पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥' किं च लिङ्गवचनभेदे दोषत्वेनाश्रीयमाणे कालकारकविभक्तिभेदा नाश्रिताः । सामान्यशदभेदे तु तेऽपि संगृहीताः । तथा हीनताधिक्ये चोपमानोपमेयसाम्याभावाद्दोषत्वेनाश्रिते परेण । तत्र च वैषम्यमेवोभय दोष संग्राहकमेकमुक्तमस्माभिः । तथा योऽपि हीनताधिक्यविशिष्टो विपर्यय उक्तः सोऽपि न तावन्मात्रेण दोषहेतुः । अतिप्रसङ्गात् । अपि त्वप्रसिद्धित एव । अन्यथा हि निन्दा स्तुती यत्र चिकीर्षिते भवतस्तत्रापि यथाक्रमं निकृष्टस्योत्कृष्टस्य चोपमानस्य दुष्टत्वं स्यात् । यथा - 'चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन । निशि चण्डाल इवायं मारयति वियोगिनीश्चन्द्रः ॥ स्तुतौ यथा - ' - 'जित्वा सपत्नानुक्षायं धेन्वा सह विराजते । यथा क्षपितदैत्येन्द्रः श्रिया साकं जनार्दनः ॥' न चात्र काचिददुष्टता । यस्त्वर्थो यत्रोपमानत्वेन न प्रसिद्धः स सादृश्ये सत्यपि न कर्तव्यः । तथाहि सिंह दधिकोऽपि शरभः शौर्येणोपमानं न केनचिन्निबद्धः । असादृश्यस्य तु दोषत्वेऽप्युपमानलक्षणेनैव निरस्तत्वादिहोपादानमनर्थकम् । को हि ज्ञातोपमालक्षणः सादृश्याभावे उपमां कुर्वीत । तस्मादेतन्निरासाच्चत्वार एवामी दोषाः, न तु सप्तेति स्थितम् । अत एव नासम्यगित्युक्तम् ॥ इदानीमेतेषामेव दोषाणां लक्षणमाह - सामान्यशब्दभेदः सोऽयं यत्रापरत्र शक्येत । योजयितुं नाभनं तत्सामान्याभिधायिपदम् ॥ २५ ॥ सामान्येति । सोऽयं सामान्यशब्दभेदाख्यो दोषः, यत्र तयोरुपमानोपमेययोः सामान्यवाचिपदं यावन्न भग्नं तावदपरत्रोपमाने योजयितुं वाचकीकर्तुं न शक्यते ॥ अथ सामान्याभिधायिपदभेदे हेतुमाह तल्लिङ्गकालकारकविभक्तिवचनान्यभावसद्भावात् । उभयोः समानयोरिति तस्यां भिद्येत किंचित्तु ॥ २६॥ तदिति । तत्सामान्याभिधायिपदं लिङ्गादीनामन्यथात्वाद्धेतोस्तस्यामुपमायां भिद्येत । ननु तर्हि वैषम्यमेवेदं तत्किमस्य पृथक्पाठेनेत्याह - उभयोरुपमानोपमेययोः । समानयो
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy