________________
११ अध्यायः] काव्यालंकारः।
१४५ अभिधेयस्येति । यत्र वक्तुरुन्मादो मौर्यमुत्कण्ठा च दोषः स्यात्तत्रातथ्यमयथार्थतानुपपन्नापि निकाममतिशयेनोपपन्ना युक्ता । खस्थस्य ह्यन्यथावचनं दोषाय । उन्मत्तादीनां तु तदेव भूषायै ॥ एतदुदाहरणानि यथाक्रममाह
भुक्ता हि मया गिरयः स्नातोऽहं वह्निना पिबामि वियत् ।
हरिहरहिरण्यगर्भा मत्पुत्रास्तेन नृत्यामि ॥ २१ ॥ भुक्ता इति । इत्युन्मादे ॥
किं मां ब्रवीषि मूर्ख पश्येदं शिशिरमेव ननु तिमिरम् ।
सुखादुरयं गन्धस्तमसा त्वेनं न पश्यामि ॥ २२ ॥ किमिति । इति मौल्यें ॥
हे हंस देहि कान्तां सा मे भवता हृतेति किं मिथ्या ।
ननु गतिरियं तदीया वाणी सैवेयमतिमधुरा ॥ २३ ॥ हे इति । इत्युत्कण्ठायाम् । अत्र गिरिभोजनं वह्निस्नानमाकाशपानमजादिपुत्रत्वं च, तथा तिमिरस्य शीतलत्वम्, गन्धस्य सुखादुत्वम् , तस्य चान्धकारेण दर्शनम् , तथा हंसेन कान्ताहरणं च सर्वमेवासंबद्धमुन्मत्तमूर्योत्कैश्चोक्तत्वाचार्वेव ॥ एवं सर्वार्थालंकारसाधारणान्दोषानभिधायेदानीं केवलोपमादोषानाह
सामान्यशब्दभेदो वैषम्यमसंभवोऽप्रसिद्धिश्च ।
इत्येते चत्वारो दोषा नासम्यगुपमायाः ॥ २४ ॥ सामान्येति । औपम्यभेदस्योपमाया इत्येते सामान्यशब्दभेदादयश्चत्वारो दोषाः । ते च नासम्यक् । अपि तु स्फुटा एव । अत्र च स्वरूपोपादाने सत्यपि चत्वार इति ग्रहणाद्यन्मेधाविप्रभृतिभिरुक्तं यथा-"लिङ्गवचनभेदी हीनताधिक्यमसंभवो विपर्ययोऽसादृश्यमिति सप्तोपमादोषाः। तत्र लिङ्गवचनभेदावन्योन्यमुपमानोपमेययोः। यथा'भक्षिताः सक्तवो राजशुद्धाः कुलवधूरिव । परमातेव निःस्नेहाः शीतलाः परकार्यवत् ॥' उपमेयादुपमानस्य यत्रोनानि विशेषणानि सा हीनता । यथा-'स मारुताकम्पितपीतवासा बिभ्रत्सलीलं शशिभासि शङ्खम् । यदुप्रवीरः प्रगृहीतशाङ्गः सेन्द्रायुधो मेघ इवावभासे ॥' एवं यत्रोपमेयादुपमानस्याधिकानि विशेषणानि तदाधिक्यम् । यथा-'स पीतवासाः प्रगृहीतशा? मनोन्यभीमं (2) वपुराप कृष्णः । शतहदेन्द्रायुधवानिशायां संसृज्यमानः शशिनेव मेघः ॥' अत्रोपमाने मेघे शशियोगोऽधिकः । यत्र विनैव यद्यर्थमसंभवद्विशेषणमुपमानं क्रियते सोऽसंभवः। यथा-'निपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः । जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽर्कात् ॥' नहि वारिधाराणामयद्यर्थ जाज्वल्यमानत्वं रविबिम्बाद्वा वारिधारापतनं