________________
१४४
काव्यमाला ।
य इति । यो गुणादिर्यस्य पदार्थस्याव्यभिचारी नित्यस्थः स गुणादिस्तस्य विशेषणतया यत्र क्रियते स दोषस्तद्वानिति ज्ञेयः । यद्यव्यभिचारी तर्हि किमर्थं क्रियत इ - परिपूरयितुं छन्दः । तस्य हि छन्दःपूरणमात्रमेवार्थ इति ॥
त्याह -
उदाहरणम्
क्व नु यास्यन्ति वराकास्तरुकुसुमर सैकलालसा मधुपाः । भस्मीकृतं वनं तद्दवदहनेनातितीत्रेण ॥ १६ ॥
क्वेति । अत्र दवदद्दनस्यातितीत्रेणेति विशेषणं छन्दः पूरणार्थमेव । तत्राव्यभिचारादिति ॥
अथातिमात्रः
अतिदूरमतिक्रान्तो मात्रां लोकेऽतिमात्र इत्यर्थः ।
तव विरहे हरिणाक्ष्याः प्लावयति जगन्ति नयनाम्बु ॥ १७ ॥
अतिदूरमिति । योऽर्थो लोकप्रसिद्धां मात्रां परिणाममतिदूरमत्यर्थमतिक्रान्त उल्लङ्घितः सोऽतिमात्रोऽर्थदोषः । उदाहरणम् – तवेत्याद्युत्तरार्धम् । अत्राश्रुलक्षणोऽर्थो मात्रां त्यक्तवान् । परा ह्यश्रूणां भूयस्ता यद्वस्त्रार्द्रीकरणम् । न तु प्रलयजलदवज्जगत्प्लावनम् ॥ अथ यत्पूर्वमुक्तम् 'तत्कारणमन्यथोक्तौ च' (११ । १) इति तदाहअत्यन्तमसंबद्धं परमतमभिधातुमन्यदश्लिष्टम् । संगतमिति यद्वयात्तत्रायुक्तिर्न दोषाय ॥ १८ ॥
अत्यन्तमिति । असंबद्धार्थता महान्दोषः । तस्यापवादोऽयम् । यत्र परकीयं मतमतिशयेनासंबद्धं प्रतिपादयितुमन्यदात्मीयमश्लिष्टमसंबद्धमर्थ वक्ता वक्ति तत्रायुक्तिरसंगतता न दोषाय । अथ कथं तेनासंबद्धेन परमतस्यासंबद्धता प्रतिपाद्यत इत्याह-संगतमिति । इतिर्हेतौ । यतस्तस्यासंबद्धस्याश्लिष्टमेव संगतं सदृशतया दर्शयितुम् ॥
1
उदाहरणम्
किमिदमसंगतमस्मिन्नादावन्यत्तथान्यदन्ते च ।
यत्नेनोप्ता माषाः स्फुटमेते कोद्रवा जाताः ॥ १९॥
किमिदमिति । कश्चिदसंबद्धं परवचनं क्षिपन्नाह — अस्मिन्वस्तुनि किमिदमसंगतं भवतोच्यते । कुतः । आदौ प्रारम्भेऽन्यत्तथान्ते च निर्गमे चान्यदिति । किमिवासंभव - मिति तत्सदृशमाह—यथा माषा उप्ताः कोद्रवाश्चोत्पन्ना इत्यसंबद्धम्, एवं तवापि वचन - मित्यर्थः ॥
भूयोऽप्याह
अभिधेयस्यातथ्यं तदनुपपन्नं निकाममुपपन्नम् । यत्र स्युर्वक्तॄणामुन्मादो मौर्यमुत्कण्ठा ॥ २० ॥