________________
११ अध्यायः ]
ततश्च किमित्याह
8
एतद्विज्ञाय बुधैः परिहर्तव्यं महीयसो यत्नात् ।
नहि सम्यग्विज्ञातुं शक्यमुदाहरणमात्रेण ॥ ११ ॥
काव्यालंकारः ।
अथ विरसः—
एतदिति । एताम्यत्वं विशेषेण ज्ञात्वा महीयसो यत्नादादरेण परिहर्तव्यम् । महाकवयो यत्र मुह्यन्तीत्यतो महीयसो यत्नादित्युक्तम् । तह्युदाहरणानि किमेतेषु नोच्यन्त इत्याह- नहीत्यादि । यस्मादुदाहरणमात्रेण न यथावद्विज्ञातुं शक्यते । ततः स्वधिया विज्ञाय यथा ग्राम्यत्वं न भवति तथा प्रयोज्यम् । यथा - ' व्याहृता प्रतिवचो न संदधे गन्तुमैच्छदवलम्बितांशुका । सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥ ' तथा——उपचरिताप्यतिमात्रं प्रकटवधूः क्षीणसंपदः पुंसः । पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥' एवमादि ॥
अन्यस्य यः प्रसङ्गे रसस्य निपतेद्रसः क्रमापेतः ।
विरसोऽसौ स च शक्यः सम्यग्ज्ञातुं प्रबन्धेभ्यः ॥ १२ ॥
अन्यस्येति । रसान्तरप्राप्तौ सत्यां यो रसः शृङ्गारादिः निपतति स विरसोऽर्थदोषः । ननु सर्वरसयुक्तत्वान्महाकाव्यस्य रसान्तरापातोऽभ्युपगत एव । तत्कथमत्र विरसोsर्थदोष इत्याह- क्रमापेतः प्रसङ्गविरुद्धः । यस्य रसस्य तत्रानवसरः स दुष्ट इत्यर्थः । किमत्रोदाहरणमित्याह - स चेत्यादि । चो हेतौ । यस्मात्स विरसोऽर्थदोषः प्रबन्धेभ्यो महाकाव्यादिभ्यः सम्यग्विज्ञातुं शक्यते । अत इह नोदाहृत इत्यर्थः ॥
प्रकारान्तरमाह ---
१४३
सूचीमात्रमाह
तत्र वनवासोऽनुचितः पितृमरणशुचं विमुञ्च किं तपसा । सफलय यौवनमेतत्सममनुरक्तेन सुतनु मया ॥ १३ ॥
तवेति । हयग्रीवसुतो नरकासुरानयनाय तत्पुरीं गतः, तत्र च हरिहतं नरकासुरं जनेभ्यः श्रुत्वा तत्सुतां च पितृमरणदुःखेन वनगतां बुका समाश्वासनाय गतः तत्र दृष्ट्वा च तां सकामः सन्नाह - तव वनवास इत्यादि । पातनिकयैव गतार्थम् ॥
यः सावसरोऽपि रसो निरन्तरं नीयते प्रबन्धेषु ।
अतिमहती वृद्धिमसौ तथैव वैरस्यमायाति ॥ १४ ॥
य इति । यः काव्यादौ कापि प्रस्तुतो रसो नैरन्तर्येण महतीं वृद्धिं नीयते स श्रोतृणां वैरस्यमावहतीति विरसो भवति । अत्र वेणीसंहारषष्ठोऽङ्को निदर्शनम् ॥
अथ तद्वान् —
यो यस्याव्यभिचारी सगुणादिस्तद्विशेषणं क्रियते । परिपूरयितुं छन्दो यत्र स तद्वानिति ज्ञेयः ॥ १५ ॥