Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 160
________________ १२ अध्यायः काव्यालंकारः। १५५ सेयं प्रोषितनाथा यस्या दयितः प्रयाति परदेशम् । दत्त्वावधिमागमने कालं कार्यावसानं वा ॥ कार्यान्तरकृतविघ्नो नागच्छत्येव वासकस्थायाः । तस्मिञ्जीवितनाथो यस्याः सा खण्डिता ज्ञेया ॥ पुनरन्यास्तास्तिस्रः सन्त्युत्तममध्यमाधमाभेदात् । इति सर्वा एवैताः शतत्रयं चतुरशीतिश्च ॥ अपराधे प्रमितं या कुप्यति मुञ्चति च कारणात्कोपम् । लिह्यति नितरां रमणे गुणकार्यात्सोत्तमा ज्ञेया ॥ आलोच्य दोषमल्पं कुप्यत्यधिक प्रसीदति चिरेण । स्निग्धापि कारणेन च महीयसा मध्यमा सेयम् ।। नियति विनापि हेतुं कुप्यत्यपराधमन्तरेणैव । खल्पादप्यपकाराद्विरज्यते साधमा प्रोक्ता ।। संबन्धिसखिश्रोत्रियराजोत्तमवर्णनिर्वसितदाराः । भिन्नरहस्या व्यङ्गाः प्रव्रजिताश्चेत्यगम्याः स्युः ॥ एताश्चतुर्दशार्या मूले प्रक्षिप्ताः ॥] अथ सर्वासामपि संविधानकवशाढ़ेदान्तरमाह द्वेषाभिसारिकाखण्डितात्वयोगाद्भवन्ति तास्तासु । । खीया खाधीनपतिः प्रोषितपतिका पुनर्द्वधा ॥ ४१ ॥ विधेति] । ताः सर्वा अभिसारिकाः खण्डिताश्च भवन्ति । अथात्मीयाभेदान्तरमाह-तासु खीया, स्वाधीनपतित्वप्रोषितपतिकात्वभेदतो द्वेधा॥ अभिसारिकाया लक्षणमभिसरणक्रमं चाभिधातुमाह अभिसारिका तु सा या दूत्या दूतेन वा सहैका वा । अभिसरति प्राणेशं कृतसंकेता यथास्थानम् ॥ ४२ ॥ काञ्चयादिरणत्कारं व्यक्तं लोके प्रयाति सर्वस्त्री । वृष्टितमोज्योत्स्वादिच्छन्नं खीया परस्त्री च ॥ ४३ ॥ इत्याद्वियं सुगमम् ॥ खण्डितालक्षणमाह यस्याः प्रेम निरन्तरमन्यासङ्गेन खण्डयेत्कान्तः । सा खण्डितेति तस्याः कथाशरीराणि भूयांसि ॥ ४४॥

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188