________________
१२ अध्यायः
काव्यालंकारः।
१५५
सेयं प्रोषितनाथा यस्या दयितः प्रयाति परदेशम् । दत्त्वावधिमागमने कालं कार्यावसानं वा ॥ कार्यान्तरकृतविघ्नो नागच्छत्येव वासकस्थायाः । तस्मिञ्जीवितनाथो यस्याः सा खण्डिता ज्ञेया ॥ पुनरन्यास्तास्तिस्रः सन्त्युत्तममध्यमाधमाभेदात् । इति सर्वा एवैताः शतत्रयं चतुरशीतिश्च ॥ अपराधे प्रमितं या कुप्यति मुञ्चति च कारणात्कोपम् । लिह्यति नितरां रमणे गुणकार्यात्सोत्तमा ज्ञेया ॥ आलोच्य दोषमल्पं कुप्यत्यधिक प्रसीदति चिरेण । स्निग्धापि कारणेन च महीयसा मध्यमा सेयम् ।। नियति विनापि हेतुं कुप्यत्यपराधमन्तरेणैव । खल्पादप्यपकाराद्विरज्यते साधमा प्रोक्ता ।। संबन्धिसखिश्रोत्रियराजोत्तमवर्णनिर्वसितदाराः ।
भिन्नरहस्या व्यङ्गाः प्रव्रजिताश्चेत्यगम्याः स्युः ॥ एताश्चतुर्दशार्या मूले प्रक्षिप्ताः ॥] अथ सर्वासामपि संविधानकवशाढ़ेदान्तरमाह
द्वेषाभिसारिकाखण्डितात्वयोगाद्भवन्ति तास्तासु । ।
खीया खाधीनपतिः प्रोषितपतिका पुनर्द्वधा ॥ ४१ ॥ विधेति] । ताः सर्वा अभिसारिकाः खण्डिताश्च भवन्ति । अथात्मीयाभेदान्तरमाह-तासु खीया, स्वाधीनपतित्वप्रोषितपतिकात्वभेदतो द्वेधा॥ अभिसारिकाया लक्षणमभिसरणक्रमं चाभिधातुमाह
अभिसारिका तु सा या दूत्या दूतेन वा सहैका वा । अभिसरति प्राणेशं कृतसंकेता यथास्थानम् ॥ ४२ ॥ काञ्चयादिरणत्कारं व्यक्तं लोके प्रयाति सर्वस्त्री ।
वृष्टितमोज्योत्स्वादिच्छन्नं खीया परस्त्री च ॥ ४३ ॥ इत्याद्वियं सुगमम् ॥ खण्डितालक्षणमाह
यस्याः प्रेम निरन्तरमन्यासङ्गेन खण्डयेत्कान्तः । सा खण्डितेति तस्याः कथाशरीराणि भूयांसि ॥ ४४॥