________________
१५६
काव्यमाला ।
सुगमं न वरम् । तस्याः कथाशरीराणि भूयांसि । तेन विप्रलब्धाकलहान्तरिते अत्रान्तर्भूते । तल्लक्षणं चेदम् । यथा-'यस्या दूतीं प्रियः प्रेक्ष्य दत्त्वा संकेतमेव वा । नागतः कारणेनेह विप्रलब्धा तु सा स्मृता ॥ ईर्ष्याकलहनिष्क्रान्तो यस्या नागच्छति प्रियः । सामर्षवशसंतप्ता कलाहान्तरिता मता ॥' एवंविधानि संविधानकवशाद्भयांसि कथाशरीराणि तस्या भवन्ति । ततश्च यदुक्तं भरतेन यथा-'तत्र वासकसज्जा च विरहोत्कण्ठितापि च । स्वाधीनभर्तृका चापि कलहान्तरिता तथा ॥ खण्डिता विप्र. लब्धा च तथा प्रोषितभर्तृका । तथाभिसारिका चैव इत्यष्टौ नायिकाः स्मृताः ॥' तदत्रापि संगृहीतम् ॥ खाधीनपतिप्रोषितपतिकयोर्लक्षणमाह
यस्याः पतिरायत्तः क्रीडासु तया समं रतौ मुदितः। सा स्यात्वाधीनपती रतिमण्डनलालसासक्ता ॥ ४५ ॥ सा स्यात्प्रोषितपतिका यस्या देशान्तरं पतिर्यातः ।
नियतानियतावधिको यास्यति यात्येत्युपैष्यति च ॥ ४६ ॥ सुगमम् ॥ अथाध्यायमुपसंहरन्नन्यथाकरणनिषेधमाह
इति कथितमशेषं लक्षणं नायकाना___ मनुगतसचिवानां हीनमध्योत्तमानाम् ।
अतिरसिकतयेदं नान्यथा जातु कुर्या
___ कविरविहतचेताः साधुकाव्यं विधित्सन् ॥ ४७ ॥ प्रकटार्थमेव ॥ इति श्रीरुद्रटकृते काव्यालंकारे नमिसाधुविरचितटिप्पणसमेतो
द्वादशोऽध्यायः समाप्तः।
त्रयोदशोऽध्यायः । संभोगः संगतयोरिति वचनात्संपर्क एव नायकयोः शृङ्गारो न त्वालोकनादीत्याश
याह
अन्योन्यस्य सचित्तावनुभवतो नायकौ यदिद्धमुदौ ।
आलोकनवचनादि स सर्वः संभोगशृङ्गारः ॥ १॥ ___ अन्योन्यस्येति । नायकौ दंपती सचित्तौ तुल्यमानसौ यदालोकनवचनोद्यानविहार. पुष्पोच्चयजलक्रीडामधुपानताम्बूलसुरतादिकं परस्परसंबन्ध्यनुभवतः स सर्वः, न तु