SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १३ अध्यायः] काव्यालंकारः। निधुवनमात्रं संभोगशृङ्गार इति । प्रवासविप्रलम्भस्य संभोगशृङ्गारत्वनिषेधार्थमाह-इ. द्धमुदाविति । प्रमुदितावित्यर्थः ॥ अथास्य संभोगशृङ्गारस्यानुभवमाहतत्र भवन्ति स्त्रीणां दाक्षिण्यस्नेहसौकुमार्याणाम् । अविरोधिन्यश्चेष्टा देशे काले च सर्वासाम् ॥ २ ॥ तत्रेति । सुगमं न वरम् । दाक्षिण्यमनुवृत्तिः स्नेहः प्रेम । सौकुमार्य मार्दवम् । देशो वनोद्यानादिः । कालो वसन्तसुरतादिः ॥ दयितचेष्टानुकारो नाम लीला स्त्रीणां भवतीति दर्शयितुमाह दयितस्य सखीमध्ये चेष्टां मधुरैर्वचोभिरुचितैस्ताः । ललितैरङ्गविकारैः क्रीडन्त्यो वानुकुर्वन्ति ॥ ३ ॥ दयितस्येति । सुगमम् ॥ तत्रापि तदनुकार्य यदनुकतुं शक्यते, न तूल्बणमपि । तदाह-- अनुकार्य न तु नार्या यत्प्रेरणकर्म तत्परोक्षे सा । अनुकुर्वती विजह्यान्माधुर्य सौकुमार्य च ॥ ४ ॥ अनुकार्यमिति । सुगमं न वरम् । तुरवधारणे । नैवेत्यर्थः ॥ चेष्टान्तराण्याह अपहारे वसनानां कुचकलशादिग्रहे रतान्ते च । अन्तर्निहितानन्दाः पुरुषेषु रुषेव वर्तन्ते ॥५॥ अपहार इति । सुगमम् ॥ समकालं निन्दन्ति त्रस्यन्ति हसन्त्यहेतु लज्जन्ति । अस्यन्त्यालिङ्गन्ति च दयितान्भूतैरिवाविष्टाः ॥ ६ ॥ समकालमिति । सुगमम् ॥ पूर्वमुक्तम् 'प्राम्यत्वमनौचित्यं व्यवहाराकारवेषवचनानाम्' (१११९) इति तत्त्वचि. त्साध्वेवेति दर्शयितुमाह समये त्वरावतीनामपदेषु विभूषणादिविन्यासः । भवति गुणाय विभाविततात्पर्यस्मेरितालिरपि ॥ ७ ॥ समय इति । सुगमम् ॥ अननुकूलाचरणं सर्वत्र दोषत्वेन प्रसिद्धम् , तस्य विशेषगुणत्वमाह कुर्वन्ति प्रतिकूलं रहसि च यद्यत्प्रियं प्रति प्रमदाः। तत्तद्गुणाय तासां भवति मनोभूप्रसादेन ॥ ८॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy