SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १५४ काव्यमाला। उद्भूतानन्दभरा प्रस्तुतजघनस्थलार्द्रवसना च । निःष्पन्दतारनयना भवति तदालोकनादेव ॥ ३७ ॥ कन्या पुनरभियुङ्क्ते न खयमेनं गतापि दुरवस्थाम् । सुस्निग्धा तदवस्थां सखी तु तस्मै निवेदयति ॥ ३८ ॥ सर्वाङ्गना तु वेश्या सम्यगसौ लिप्सते धनं कामात् । निर्गुणगुणिनोस्तस्या न द्वेष्यो न प्रियः कश्चित् ॥ ३९ ॥ गम्यं निरूप्य सा स्फुटमनुरक्तवाभियुज्य रञ्जयति । आकृष्टसकलसारं क्रमेण निष्कासयत्येनम् ॥ ४०॥ आत्मेत्याद्यार्यापञ्चविंशतिः सुगमा न वरम् । आत्मीया परकीया वेश्या चेति मूलभेदत्रयम् । आत्मीया च, मुग्धा मध्या प्रगल्भा चेति पुनस्त्रेधा । पुनश्च मध्याप्रगल्भयोधीराधीरा मध्या चेति प्रत्येकं भेदत्रयम् । पुनश्च ज्येष्ठाकनिष्ठात्वेन मध्याप्रगल्भयोर्भदद्वयम् । मुग्धा त्वेकभेदैव । काव्येषु तथा प्रसिद्धेः । अक्षतयोनित्वात्पुनर्विवाहिता पुनर्भूः । परकीया, कन्या परिणीता चेति द्विभेदा । वेश्या त्वेकरूपैवेति । तल्लक्षणं च स्वयं योजनीयमिति ॥ [ता एवाधीनपतिर्वासकसजाभिसारिकोका च । अभिसंधिता प्रगल्भा प्रोषितपतिखण्डिते चाष्टौ ॥ यस्याः सुरतविलासैराकृष्टमनाः पतिः स्थितः पार्थे । विविधक्रीडासक्ता साधीनपतिर्भवेत्तत्र ॥ निश्चितदयितागमना सज्जितनिजगेहदेहशयनीया । ज्ञेया वासकसज्जा प्रियप्रतीक्षेक्षितद्वारा ॥ अभिसारिकेति सेयं लज्जाभयलाघवाननालोच्य । अभिसरति प्राणेशं मदनेन मदेन चाकृष्टा ॥ नोपगतः प्राणेशो गुरुणा कार्येण विनितागमनः । यस्याः किं तु स्यादित्याकुलचित्तेत्यसावुत्का ।। अनुनयकोपं कृत्वा प्रसाद्यमानापि न प्रसन्नेति । यस्या रुषेव दयितो गच्छत्यभिसंधिता सेयम् ॥ यस्या जीवितनाथः संकेतकमात्मनैव दत्त्वापि । नायात्युपागतायां तस्यामिति विप्रलब्धेयम् ॥
SR No.023503
Book TitleKavyalankar
Original Sutra AuthorN/A
AuthorDurgaprasad Pt, Wasudev Lakshman Shastri
PublisherTukaram Jawaji
Publication Year1909
Total Pages188
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy