________________
१२ अध्यायः ]
काव्यालंकारः ।
लब्धायतिः प्रगल्भा रतिकर्मणि पण्डिता विभुर्दक्षा | आक्रान्तनायकमना निर्व्यूढविलासविस्तारा ॥ २४ ॥ सुरते निराकुलासौ द्रवतामिव याति नायकस्याङ्गे । न च तत्र विवेक्तुमलं कोऽयं काहं किमेतदिति ॥ २५ ॥ तत्र कुपितापराधिनि संवृत्याकारमधिकमाद्रियते । कोपमपत्यास्ते धीरा हि रहस्युदासीना ॥ २६ ॥ मध्या तु साधुवचनैस्तमीदृशं प्रतिभिनत्ति सोल्लुण्ठैः । ताडयति मङ्क्ष्वधीरा कोपात्संत संतये ॥ २७ ॥ ज्येष्ठकनिष्ठत्वेन तु पुनरपि मध्या द्विधा प्रगल्भा च । मुग्धा त्वनन्यभेदा काव्येषु तथा प्रसिद्धत्वात् ॥ २८ ॥ दाक्षिण्यप्रेमभ्यां व्यवहारो नायकस्य काव्येषु | दृष्टस्तयोरवश्यं सन्नपि न पुनर्भवो भेदः ॥ २९॥ परकीया तु द्वेधा कन्योढा चेति ते हि जायेते । गुरुमदनार्ते नायकमालोक्याकर्ण्य वा सम्यक् ॥ ३० ॥ साक्षाच्चित्रे स्वमे स्याद्दर्शनमेवमिन्द्रजाले वा । देशे काले भङ्गया साधु तदाकर्णनं च स्यात् ॥ ३१ ॥ द्रष्टुं न संमुखीनं कन्या शक्नोति नायकं हृष्टा । वक्तुं न च ब्रुवाणं वक्ति सखीं तं सखी चासौ ॥ ३२ ॥ पश्यत्यवीक्षमाणं सुस्निग्धस्फारलोचना सततम् । दूरात्पश्यति तस्मिन्नालिङ्गति बालमङ्कगतम् ॥ ३३॥ अनिमित्तं च हसन्ती सादरमाभाषते सखीं किमपि । रम्यं वा निजमङ्गं सव्यपदेशं प्रकाशयति ॥ ३४ ॥ सख्या पर्यस्तं वा रचयत्यलकावतंसरशनादि । चेष्टां करोति विविधामनुल्बणैरङ्गभङ्गैर्वा ॥ ३५ ॥ अन्योढापि तथैतत्सर्वं कुरुतेऽनुरागमापन्ना । नायकमभियुङ्क्ते सा प्रगल्भभावेन पुरतश्च ॥ ३६ ॥
२०
१५३