________________
१५२
काव्यमाला। एवमिति । खण्डयतीति । वक्तीति । कृतेति । गतार्थम् ॥ अथ तस्य नर्मसचिवः क्रीडासहायो भवति, तस्य चाष्टौ गुणाः । तानाह
भक्तः संवृतमन्त्रो नर्मणि निपुणः शुचिः पटुर्वाग्मी ।
चित्तज्ञः प्रतिभावांस्तस्य भवेन्नर्मसचिवस्तु ॥ १३ ॥ भक्त इति । गतार्थार्या ॥ अथ तस्यैव भेदानाह
त्रिविधः स पीठमर्दः प्रथमोऽथ विटो विदूषकस्तदनु । नायकगुणयुक्तोऽथ च तदनुचरः पीठमर्दोऽत्र ॥ १४ ॥ विट एकदेशविद्यो विदूषकः क्रीडनीयकप्रायः ।
निजगुणयुक्तो मूल् हासकराकारवेषवचाः ॥ १५ ॥ त्रिविध इति । विट इति । गतार्थमार्याद्वयम् ॥ अथ नायिकानां खरूपं भेदान्प्रभेदांश्च भेदप्रभेदखरूपं चाह
आत्मान्यसर्वसत्तास्तिस्रो लज्जान्विता यथोक्तगुणाः । सचिवगुणान्वितसख्यस्तस्य स्युर्नायिकाश्चेमाः ॥ १६ ॥ शुचिपौराचाररता चरित्रशरणार्जवक्षमायुक्ता । आत्मीया तु त्रेधा मुग्धा मध्या प्रगल्भा च ॥ १७ ॥ मुग्धा तत्र नवोढा नवयौवनजनितमन्मथोत्साहा । रतिनैपुणानभिज्ञा साध्वसपिहितानुरागा च ॥ १८ ॥ तल्पे परिवृत्यास्ते सकम्पमालिङ्गनेऽङ्गमपहरति । वदनं च चुम्बने सा पृष्टा बहुशोऽस्फुटं वक्ति ॥ १९ ॥ अन्यां निषेवमाणे सा कुप्यति नायके ततस्तस्य । रोदिति केवलमग्रे मृदुनोपायेन तुष्यति च ॥ २०॥ , आरूढयौवनभरा मध्याविर्भूतमन्मथोत्साहा । उद्भिन्नप्रागल्भ्या किंचिद्धृतसुरतचातुर्या ॥ २१ ॥ व्याप्रियते सायस्ता सुरते विशतीव नायिकाङ्गेषु । सुरतान्ते सानन्दा निमीलिताक्षी विमुह्यति च ॥ २२ ॥ कुप्यति तत्र सदोषे वक्रोक्त्या प्रतिभिनत्ति तं धीरा । परुषवचोभिरधीरा मध्या सास्त्रैरुपालम्भैः ॥ २३ ॥