________________
१२ अध्यायः
काव्यालंकारः।
१५१
तस्मानाट्ये रसाः स्मृताः ॥' स्यादेतत् । स्थायिभावानामेव रसनं भविष्यतीत्याहनिर्वेदादिध्वपि तद्रसनं निकाममस्तीति हेतोस्तेऽपि रसा ज्ञेयाः । यस्य. तु परिपोषं न गतास्तस्य भावा एव ते । अयमाशयो ग्रन्थकारस्य-यदुत नारित सा कापि चित्तत्तिर्या परिपोषं गता न रसीभवति । भरतेन सहृदयावर्जकत्वप्राचुर्यात्संज्ञां चाश्रित्याष्टौ नव वा रसा उक्ता इति ॥ अथ शृङ्गारलक्षणम्
व्यवहारः पुंनाोरन्योन्यं रक्तयो रतिप्रकृतिः । शृङ्गारः स द्वेधा संभोगो विप्रलम्भश्च ॥ ५ ॥ संभोगः संगतयोर्वियुक्तयोर्यश्च विप्रलम्भोऽसौ ।
पुनरप्येष द्वेधा प्रच्छन्नश्च प्रकाशश्च ॥ ६ ॥ व्यवहार इति । संभोग इति । गतार्थ न वरम् । मातृसुतयोः पितृदुहितो_तृभगिन्योः शृङ्गारनिवृत्त्यर्थं रक्तयोरिति पदम् । रतिः कामानुविद्धा प्रकृतिः कारणं यस्य । अथ शृङ्गारभेदव्याख्या संभोग इत्यादिका । पुनरप्येष इत्यादिना प्रभेदकथनम् ॥ शृङ्गारश्च नायकाश्रय इति तस्य गुणानाह
रत्युपचारे चतुरस्तुङ्गकुलो रूपवानरुङ्मानी । अग्राम्योज्वलवेषोऽनुल्बणचेष्टः स्थिरप्रकृतिः ॥ ७ ॥ सुभगः कलासु कुशलस्तरुणस्त्यागी प्रियंवदो दक्षः ।
गम्यासु च विस्रम्भी तत्र स्यान्नायकः ख्यातः ॥ ८॥ युग्मम् ॥ रत्युपचार इति । सुभग इति । सुगमम् । एतैः षोडशभिर्गुणैर्युतो नायकः स्त्रीणामभिगम्यत्वाच्छृङ्गाराश्रय इति ॥ अथैवंगुणस्यास्य भेदान्सलक्षणानार्याचतुष्टयेनाह
एवं स चतुर्धा स्यादनुकूलो दक्षिणः शठो धृष्टः । तत्र प्रेम्णः स्थैर्यादनुकूलोऽनन्यरमणीकः ॥ ९॥ खण्डयति न पूर्वस्यां सद्भावं गौरवं भयं प्रेम । अभिजातोऽन्यमना अपि नायर्या यो दक्षिणः सोऽयम् ॥ १० ॥ वक्ति प्रियमभ्यधिकं यः कुरुते विप्रियं तथा निभृतम् । आचरति निरपराधवदसरलचेष्टः शठः स इति ॥ ११ ॥ कृतविप्रियोऽप्यशङ्को यः स्यान्निर्भसितोऽपि न विलक्षः । प्रतिपादितेऽपि दोषे वक्ति च मिथ्येत्यसौ धृष्टः ॥ १२ ॥