________________
१५०
काव्यमाला। धर्मादिशास्त्रेभ्यस्तेषामपि किं न भवतीत्याह-नीरसेभ्यः शास्त्रेभ्यो हिर्यस्मात्ते सरसास्त्रस्यन्ति बिभ्यति ॥ ततः किमित्याह
तस्मात्तत्कर्तव्यं यत्नेन महीयसा रसैर्युक्तम् ।
उद्वेजनमेतेषां शास्त्रवदेवान्यथा हि स्यात् ॥ २ ॥ तस्मादिति । गतार्थम् । नन्वेवं सति सरसार्थमेव काव्यं स्यान्न तु नीरसार्थमिति नास्य सर्वजनीनत्वं स्यात् । नैष दोषः । सरसानां प्रवृत्त्युपाय एषोऽस्माभिरुक्तः, न तु नीरसप्रवृत्तिनिषेधः कृत इति । तेऽपि प्रवर्तन्त एव । अथालंकारमध्य एव रसा अपि किं नोक्ताः । उच्यते-काव्यस्य हि शब्दार्थों शरीरम् । तस्य च वक्रोक्तिवास्तवादयः कटककुण्डलादय इव कृत्रिमा अलंकाराः । रसास्तु सौन्दर्यादय इव सहजा गुणाः इति भिन्नस्तत्प्रकरणारम्भः ॥ अथ क एते रसास्तानेवोद्दिशति
शृङ्गारवीरकरुणा बीभत्सभयानकाद्भुता हास्यः ।
रौद्रः शान्तः प्रेयानिति मन्तव्या रसाः सर्वे ॥ ३ ॥ शृङ्गारेति । गतार्थ न वरम् । शृङ्गारस्य प्राधान्यख्यापनार्थः प्रागुपन्यासः । इतिशब्द एवंप्रकारार्थः । एवंप्रकारा अन्येऽपि भावा रतिनिर्वेदस्तम्भादयः सर्वेऽपि रसा बोद्धव्याः । तत्र रत्यादयः स्थायिनः । निर्वेदादयो व्यभिचारिणः । स्तम्भादयः सा. त्त्विकाः । तद्यथा-'रतिस्सश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्साविस्मयशमाः स्थायिभावा रसाश्रयाः ॥ निर्वेदोऽथ तथा ग्लानिः शङ्कासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिधृतिः ॥ ब्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्थस्तथोग्रता। मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंश दिमे भावाः समाख्यातास्तु नामतः । स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः । वैवर्ण्यमथुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥' तत्र शृङ्गारादिषु रत्यादयो यथासंख्यं भवन्ति । निर्वेदभयस्तम्भादयस्तु सर्वेष्विति ॥ ननु कथं तर्हि निर्वेदादयो रसतां यान्तीत्याह
रसनाद्रसत्वमेषां मधुरादीनामिवोक्तमाचार्यैः ।।
निर्वेदादिष्वपि तन्निकाममस्तीति तेऽपि रसाः ॥ ४ ॥ रसनादिति । आचार्यैर्भरतादिभिरेषां स्थायिभावानां रसनादावादनाद्धेतो रसत्वमुक्तम् । केषामिव । मधुराम्लादीनामिव । मधुरादयो ह्याखाद्यमानाः सन्तो रसतां यान्तीति । उक्तं च-'अनेकद्रव्यसंयुक्तैर्व्यञ्जनैर्बहुभिश्चितम् । आखदयन्ति भुञ्जाना भक्तं भक्तभुजो यथा ॥ भावाभिनयसंबद्धान्स्थायिभावांस्तथा रसान् । आस्वादयन्ति मनसा