Book Title: Kavyalankar
Author(s): Durgaprasad Pt, Wasudev Lakshman Shastri
Publisher: Tukaram Jawaji

View full book text
Previous | Next

Page 158
________________ १२ अध्यायः ] काव्यालंकारः । लब्धायतिः प्रगल्भा रतिकर्मणि पण्डिता विभुर्दक्षा | आक्रान्तनायकमना निर्व्यूढविलासविस्तारा ॥ २४ ॥ सुरते निराकुलासौ द्रवतामिव याति नायकस्याङ्गे । न च तत्र विवेक्तुमलं कोऽयं काहं किमेतदिति ॥ २५ ॥ तत्र कुपितापराधिनि संवृत्याकारमधिकमाद्रियते । कोपमपत्यास्ते धीरा हि रहस्युदासीना ॥ २६ ॥ मध्या तु साधुवचनैस्तमीदृशं प्रतिभिनत्ति सोल्लुण्ठैः । ताडयति मङ्क्ष्वधीरा कोपात्संत संतये ॥ २७ ॥ ज्येष्ठकनिष्ठत्वेन तु पुनरपि मध्या द्विधा प्रगल्भा च । मुग्धा त्वनन्यभेदा काव्येषु तथा प्रसिद्धत्वात् ॥ २८ ॥ दाक्षिण्यप्रेमभ्यां व्यवहारो नायकस्य काव्येषु | दृष्टस्तयोरवश्यं सन्नपि न पुनर्भवो भेदः ॥ २९॥ परकीया तु द्वेधा कन्योढा चेति ते हि जायेते । गुरुमदनार्ते नायकमालोक्याकर्ण्य वा सम्यक् ॥ ३० ॥ साक्षाच्चित्रे स्वमे स्याद्दर्शनमेवमिन्द्रजाले वा । देशे काले भङ्गया साधु तदाकर्णनं च स्यात् ॥ ३१ ॥ द्रष्टुं न संमुखीनं कन्या शक्नोति नायकं हृष्टा । वक्तुं न च ब्रुवाणं वक्ति सखीं तं सखी चासौ ॥ ३२ ॥ पश्यत्यवीक्षमाणं सुस्निग्धस्फारलोचना सततम् । दूरात्पश्यति तस्मिन्नालिङ्गति बालमङ्कगतम् ॥ ३३॥ अनिमित्तं च हसन्ती सादरमाभाषते सखीं किमपि । रम्यं वा निजमङ्गं सव्यपदेशं प्रकाशयति ॥ ३४ ॥ सख्या पर्यस्तं वा रचयत्यलकावतंसरशनादि । चेष्टां करोति विविधामनुल्बणैरङ्गभङ्गैर्वा ॥ ३५ ॥ अन्योढापि तथैतत्सर्वं कुरुतेऽनुरागमापन्ना । नायकमभियुङ्क्ते सा प्रगल्भभावेन पुरतश्च ॥ ३६ ॥ २० १५३

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188